________________
विसंयोजकाः ]
विसयोजनाधिकारः
1 १०५
एएसिंगंभते सामाइयछेदो वहावणियपरिहारविसुद्रियसुहुम संपराय अहक्वायसंजयाण संजमट्ठाणाणं कमरे कपरे जाव विसेस हिया वा ? गोयमा ! सव्वधोवे अहक्वाय संजमस्स एगे अजहन्नमणुक्कोसए संजमट्ठाणे सुहुभसंपरायसंजयस्स अंतोमुहुत्तिया संजमट्ठाणा असं वेज्जगुणा परिहारविसुद्धिय संजयस्य संजमहाणा असंखेज गुणा सामाझ्यसंजयस्स छेदविद्वावणियसंजयस्स एएसिं णं संजमट्ठाणा दोह वि तुल्ला असंखेज्जगुणा ।
प्रतिपादितो देशविरति सर्वविरतिलाभः ।
संप्रत्यनन्तानुबन्धिविसंयोजना प्ररूप्यते । तत्र विसंयोजना "णि वेत्यास" सिद्धहेम (५।३।१११) भावे 'अन्' प्रत्ययस्तत "आत्" सिद्धहेम (२|४|१८) इति 'आप' प्रत्ययः, आत्मनः कर्मणश्च सर्वथा संयोगविघटनम्, अनन्तानुबन्धि चतुष्कस्य परिशाटनमिति यावद्, न चानन्तानुबन्धिनां विसंयोजनाऽभिधानं चारित्रमोहनीयोपशमनाऽभिधानेऽधिकृतेऽसंगतमिति वाच्यम्, यतो वेदकसम्यग्दृष्टिर्जीवोऽवश्यमनन्तानुबन्धिनः कषायान् विसंयोज्यैव चारित्रमोहनीयमुपशमयितुमारभते, नाऽन्यथा । अत्र केचिदाचार्या अनन्तानुबन्धिनः कषायानुपशमय्याऽपि चारित्रमोहनीयमुपशमयितुमारभत इति वदन्ति तत्स्वरूपं त्वग्रे वक्ष्यते । मूलकारांस्त्वनन्तानुचन्धिनां विसंयोजनैव मन्यन्ते, न पुनरुपशमना । एवं कषायप्राभृतचूर्णिकारा अध्यनन्तानुन्धिनो विसंयोजन स्वीकुर्वन्ति । अतो मूलकारो विसंयोजनां निजिगदिषुराह - चउगइया पज्जत्ता तिन्नि वि संयोजणा विजोयांत ।
करगोहि तिहिं सहिया नंतरकरणं उवसमो वा ||३१||
चातुर्गतिका पर्याप्ताः त्रयोपि संयोजनान् विसंयोजयन्ति ।
करस्त्रिभिः सहिताः नांतरकरणमुपशमो वा ॥ ३१ ॥ इति पदसंस्कारः । अनन्तानुबन्धिविसंयोजनायाः क आरम्भक इति चेद् ९ उच्यते "चउगड्या" इत्यादि, चातुर्गतिका नैरकितिर्यग्मनुष्यदेवा अष्टाविंशतिसत्कर्माणो वियोजयन्तीत्यनेनाऽन्वयः । कथंभूता चातुर्गतिका इत्याह- 'पजत्ता" ति पर्याप्ताः सर्वाभिराहारादिलक्षणपर्याप्तिभिः पर्याप्ताः त्रयोऽप्यविरतदेशविरतसर्वविरताः “संजोयणा" त्ति, संयोजनानतानुबन्धिनो विसंयोजयन्ति-विनाशयन्ति । तत्राऽविरतसम्यग्यश्वातुर्गतिका देशविरतास्तिर्यङ्मनुष्या एव, सर्वविरतास्तु मनुष्या एव चतुर्थगुणस्थानकप्रभृतिसप्तमगुणस्थानकपर्यन्तवर्तिनो जीवा विसंयोजयितुमारभन्त इत्यर्थः, पुनः कथं भृताश्चातुर्गतिका अनन्तानुबन्धिनो विसंयोजयन्तीत्याह -- "करणेहिं तिहिं सहिया" त्ति, त्रिभिः करणैर्यथा प्रवृत्तकरणाऽपूर्वक णानिवृत्तिकरण । ख्यैः सहिताः संधी
:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org