________________
१०६ ?
[ गाथा-३१
यन्ते स्म समपूर्वको 'धा' धातुः, ततो भूते क्तः "समस्ततहिते वा" (३।२।१३९) इति मकारस्य लोनः सहिताः = युक्ताश्चातुर्गतिका यथाप्रवृत्तादिकरणत्रयपूर्वकमेव विसंयोजयन्तीत्यर्थः करणस्य पूर्व भूमिका प्रथमसम्यक्त्वोत्पादवज्ज्ञेया । तथाहि - प्रतिसमयमनन्तगुणवृद्धया विशुद्धया प्रवर्ध - मानः शुभलेश्यायां वर्तमानः संज्ञिपञ्चेन्द्रियपर्याप्तः परावर्तमानासु प्रकृतिषु शुभानां प्रकृतीनां बन्धकः, अन्तःसागरोपमकोटी कोटिलक्षणां स्थिति बघ्नंस्तामपि प्रत्यन्तमुहूर्त पल्योपमसंख्येयभागहीनाम्, शुभानां प्रकृतीनां चतुःस्थानकमशुभानां च द्विस्थानकमनुभागं बध्नाति तत्राऽपि प्रतिसमयं शुभानामनन्तगुणवृद्धमशुभानां चाऽनन्तगुणहीनं बघ्नानीत्यादिप्राग्भूमिकाऽत्रापि ज्ञातव्या, नवरं प्रकृतिबन्धादिषु विशेषः स्वत एव विमर्शनीयः । पूर्वभूमिकां व्यतिक्रम्य यथाप्रवृत्त करणमारभते । तत्करणस्य वक्तव्यता प्रथमोपशमिक कन्ववज्ज्ञातव्या । ततोऽपूर्वकरणं प्रविशन्नेव के तत्प्रथमममयादेवाऽपूर्वस्थितिघातरसघातस्थितिबन्धान् गुणश्रेणिमनन्तानुबन्धित्रतुकम्य च गुणमङ्क्रममारभते । तत्र गुण श्रेणिनिक्षेपः सर्वविरतिगुणश्रेणिनिक्षेपतः सख्येय गुणहीनः । सर्वविरतिगुणश्रेणिसत्काकृष्यमाणदलिकतः प्रतिसमयमसंख्येयगुणानि दलिकान्याकृपन्ति संयता अनन्तानुबन्धिनां विमंशेजकाः । तथा चोक्तं कर्मप्रकृतौ तच्चूण घ
T
उपशमनाकरणम्
सम्मत्त्पत्तिसावयविरए संजोयणा विणासे य । दंसणमोहकण्ववगे कसायउवसामगुवसंते
॥ १ ॥
खवगेय ग्वीणमोहे जिसे य दुविहे असंग्वगुण सेदी ।
उदओ तव्विवरीओ कालो संग्वेज्जगुणसेटी ॥२॥
चूर्णि:- “सम्मत्तप्पत्ति गुणसेढी सावग्रगुणसेही संजमगुणसेही ग अणंताणबंधिविस जोगणागण सेढी दंसणमोहक्खवगगुणसेही चरित्तमोहउवसामगगुणसेढी स्ववगगुणसेढी ग्वीणमोहस्स गुणसेढी, सजोगिकेवलीगुणसेढी, अजोगिकेवलीगुणसेढी । 'असग्वगुणसेढी उदओ' त्ति, सव्वम्शेवं समत्तुप्पायसेढीते दलियं सावगगणसेढोते असखेजगुणं जाव सजोगिकेवलोगुणसेढीतो अजोगिकेवलोगणसेढीते दलियं असंग्वेज्जगणं तम्हा उदयं पि पटुच्च असंग्वेज्जगुणा एव । 'नव्विवरीओ कालो संखेज्जगुणसेढी' त्ति-कालं पडुच्च विवरीयाती । सव्वस्थोवो अजोगिकेवलीगुणसेढी कालो, सजोगिकेवली गुणसेढीकालो संग्वेज गुणा ।
टिप्पणी-५ लब्धिसारे त्वत्र स्थितिखण्ड प्रथमोपशमिकसम्यक्त्वत संख्येयगुणं तथा रसघातश्चाऽनन्तगुरण उक्तः, तद्यथा - अनुभागकण्डकायामः पूर्वस्मादनः तगुणः । स्थितिकण्डकायामश्च पूर्वस्मासंख्येयगुणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org