________________
स्थापनाविषेचनम् ]
[ १०३
दृष्टिरस्य सर्वविरतस्य संयमग्रहणप्रथमसमये जघन्यमुत्पादक स्थानं ( ८ ) निश्च तव्यम् । ततः प्रभृत्यसंख्ये लोकाकाशप्रदेशप्रमाणानि षट्स्थानपतितानि स्थानानि गत्वा तस्यैव देशविरतिचरस्य संयमप्रथमसमय उत्कृष्टमुत्पादकस्थानं । (९ ) E लभ्यते ।
सर्वविरतेरधिकारः
यद्वाऽनार्यभूमिजजन्तोर्जघन्योत्पादकस्थानतोऽसंख्येय लोकाकाशप्रदेशप्रमाणानि स्थानानि व्यतिक्रम्य मिथ्यादृष्टिचरस्य सर्वविरतस्योत्कृष्टमुत्पादकस्थानम् 9A अवगन्तव्यम् । ततोऽसंख्येयलोकाकाशप्रदेशमात्राणि स्थानान्यन्तरयित्वाऽविरतसम्यक्त्वत आगतस्य सर्वविरतस्य जघन्यमुत्पादकस्थानं 9B संभवति । ततोऽसंख्येयलोकप्रमाणानि स्थानानि गत्वा तस्यैवोत्कृष्टमुत्पादकस्थानं 90 विवक्षणीयम् । ततोऽसंख्येयलोकप्रमाणानि स्थानान्यन्तरयित्वा देशविरतितः सर्वविरतिं प्रतिपद्यमानस्य जधन्यमुत्पादकस्थानं 9D संभवति । ततोऽसंख्येयलोकाकाशप्रदेशप्रमाणानि स्थानानि व्यतिक्रम्य देशविरतितः सर्वविरतिमधिगतस्याऽनार्यभूमिजस्योत्कृष्टमुत्पादकस्थानं 9E संभवति । एवमन्यानपि विशेषान् विबुधा स्वधिया प्रकटयन्तु, तथैव व्यतिरिक्तस्थानेष्वपि विशेषान् बहुश्रुताः कलयन्तु । तवं तु केवलिनो विदन्ति ।
तत आरभ्याऽसंख्येयलोकाकाशप्रदेश मात्राणि षट्स्थानानि गत्वाऽऽर्यभूमिजस्य देश - त्रिरतितः सर्वविरतिं प्रतिपन्नस्य सर्वविरतस्य तत्प्रथमसमये विद्यमानमुत्कृष्टमुत्पादकस्थानम् १० उच्यते । एतान्यार्य भूमिजस्य जघन्यस्थानात्परमुत्कृष्टस्थान पर्यन्तविद्यमानानि सर्वाण्यप्यार्यभूमिजस्य मध्यमोत्पादकस्थानान्युच्यन्ते तानि च यथायोग्यमार्यऽनार्यदेशजस्य मिथ्यात्वत आगतस्य वाऽविरतसम्यक्त्वतः सर्वविरतिं प्रतिपन्नस्य वा देशविरनितः सर्वविरतिमधिगतस्य वा तदनुरूपविशुद्धया सर्वविरतिं प्रतिपद्यमानस्य संभवन्ति । आर्यखण्ड मनुष्यस्योत्कृष्टोत्पादकस्थानादसंख्ये लोकमात्राणि स्थानान्यन्तरयित्वा सामायिकच्छेदोपस्थापनीयमंयमयोजघन्यव्यतिरिक्तस्थानं १० A मिथ्यात्वात आगतस्य जीवस्य संयमग्रहणाऽप्रथमसमये प्राप्यते । ततः परममंख्येयलोकाशप्रदेशप्रमाणानि षट्स्थानानि गत्वा परिहारविशुद्धिसंयमस्य जघन्यं संयमलब्धिस्थानं (११) प्राप्यते । तच्च परिहारविशुद्धितोऽनन्तरसमये सामायिकच्छेदोपस्थापनीयसंयमौ प्राप्स्यतः परिहारविशुद्धिसंयमस्य चरमसमये वर्तमानस्य जन्तोर्भवति । न चेदं लब्धिस्थानं परिहारविशुद्धितः परिभ्रश्यता जन्तुना, तर्हि परिहारविशुद्धिसंयमस्य जघन्यं प्रतिपातस्थानं कथं नोच्यत इति वाच्यम्, अत्राऽविरतिं देशविरतिं वा प्रतिपत्स्यमानस्यैव प्रतिपातस्थानत्वेनेष्टत्वाद् व्रतभङ्गनिमित्तकसंक्लेशे सति प्रतिपातस्थानस्य विवक्षणादिति फलितार्थः । परिहारविशुद्धिसंयमस्य जघन्यलब्धिस्थानतोऽसंख्येयलोकाकाशप्रदेशप्रमाणानि पट्स्थानानि गत्वा परिहारविशुद्धिसंयमस्योत्कृष्टलब्धिस्थानं ( १२ ) निश्चेतव्यम् । ततः परमसंख्येलोकाकाशप्रदेशप्रमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org