________________
१०० ]
उपशमनाकरणम्
| गाथा ३०
परिहारविशुद्धिजीवस्योत्कृष्टलब्धिस्थानमनन्तगुणम् । (१३) ततः मामायिकच्छेदोपस्थापनीयसंयमयोरुत्कृष्टं लब्धिस्थानमनन्तगुणम् तच्चाऽनिवृत्तिकरणक्षपकस्य चरमसमये भवति ।
.
मिथ्यात्वाऽभिमुखस्य सर्वजघन्यस्थानादारभ्य सामायिकच्छेदोपस्थापनीययोरुत्कृष्टसंयमस्थानपर्यन्तानि सर्वाणि सामायिकच्छेदोपस्थापनीय संयमद्वयसम्बन्धीनीत्यूह्यम । अपि च प्रतिपातस्थानान्युत्पादकस्थानानि च सर्वाणि सामायिकच्छेदोपस्थापनीयसम्बन्धीन्यैव, यतः सर्वविरति प्रतिपद्यमानस्य तत्प्रथमसमये सर्वविरतितश्च पततोर्जन्तोम्सर्वविरतिचरमसमये सामायिकच्छेदोपस्थापनीय संयमयोरन्यतर एव भवति । तथाहि परिहारविशुद्धितः परिभ्रश्यञ्जन्तुरादों छेदोपस्थापनीयसंयमं स्पृशति, न त्वविरतिं देशविरतिं वा । एवं सूक्ष्मसंपरायतोऽवतरता जन्तुनाऽपि प्रथमं सामायिकच्छेदोपस्थापनीयसंयमौ प्राप्येते, नाऽविरत्यादिकम् । तथा च यथाख्याततः परिभ्रश्यता जन्तुनाऽपि सूक्ष्मसंपरायस्थानं प्राप्यते, नाऽविरत्यादिकम्, अतः सर्वाणि प्रतिपातस्थानानि सामायिकच्छेदोपस्थापनीय संयमयोर्भवन्ति । न च भवक्षयादुपशमश्रेण्यां मृतः सूक्ष्मसंपरायाद्यथाख्याताद्वाऽविरत्यादिकं स्पृशतीति कथं सूक्ष्मसंपराययथाख्यात चारित्रे प्रतिपातस्थानाभाव इति वाच्यम्, संयमघातिकषायोदयेन गुणस्थानक्षयादेवाऽत्र प्रतिपातस्थानस्य विवक्षितत्वात् । यत्र भवक्षयहेतुकः प्रतिपातः, तत्र यत्प्रतिपातस्थानम्, तदत्र विवक्षितम्, व्रतप्रतिज्ञाया पूर्णत्वेन तद्भङ्गनिमित्तकमंक्लेशाऽमावात् । एवं प्रतिपद्यमानस्थानमपि सामायिकच्छेदोपस्थापनीयसंयतयोरेव भवति, यतः सर्वविरति प्रतिपद्यमानो जन्तुः पूर्व सामायिकच्छेदोपस्थापनीयसंयमयोरन्यतरं संयमं लभते ।
सामायिकच्छेदोपस्थापनीययोः सर्वजघन्यं लब्धिस्थानं प्रतिपातस्थानं भवति । यदि संयमग्रहणाऽपेक्षया विचार्यते तार्यदेशोद्भवयोः सामायिकच्छेदोपस्थापनीयसंयतयोः प्रथमं लब्धिस्थानं जघन्यं प्राप्यते । (१४) ततः सूक्ष्मसंपरायस्य जघन्य संयमस्थानमनन्तगुणम् । उपशमश्रेण्यवरोहणेऽनिवृत्तिकरणाऽभिमुखस्य सूक्ष्म संपरायसंयमस्य जघन्यस्थानं सूक्ष्मसंपरायचरमसमये भवति ।
Jain Education International
(१५) ततः सूक्ष्म संपरायस्योत्कृष्टं संयमस्थानमनन्तगुणम्, सूक्ष्मसंपरायक्षपकचरमसमये प्राप्यते ।
(१६) ततो यथाख्यातस्याऽजघन्याऽनुत्कृष्टसंयम स्थानमनन्तगुणम्, तच्चोपशान्तकषाय क्षीणकषायमयोगकेवन्ययोग केव लिस्वामिकं भवति, मोहनीयस्य सकलप्रकृतीनां प्रकृतिस्थित्यनुभागप्रदेशरूपाणां सर्वोपशमात्सर्वक्षयाच्च समुद्भूतत्वात्तस्य जघन्यमध्यमोत्कृष्टलक्षणभेदा न सन्तीत्येकमेव लब्धिस्थानम्, तच्च पूर्वतोऽनन्तगुणवृद्धं भवति । उपशमश्रेणिक्षपक
For Private & Personal Use Only
www.jainelibrary.org