________________
[EE
तीव्रतामन्दते ]
सवविरतेरधिकारः (२) तत उत्पादकस्थानानि षट्स्थानपातितान्यसंख्येयलोकाकाशप्रदेशमात्राण्यसंख्येयगुणानि । (३) ततो लब्धिस्थानानि षटम्थानपतितान्यमंख्येयलोकाकाशप्रदेशमात्राण्यसंख्येयगुणानि । उक्तं च कषायप्रभृतौँ -"एदेखि लडिट्ठाणाणं अप्पाबहुअं तं जहा- (१) सव्वन्योवाणि पडिवादहाणाणि (२) उप्पादयहाणाणि संखेजगुणाणि (३) लडिट्ठा. णाणि असंखेज्जगुणाणि"।
(४) तीव्रतामन्दतामरूपणा-(१)मिथ्यात्वाऽभिमुखस्य सर्वजघन्यं प्रतिपातस्थानमल्पं सर्वाऽल्पलब्धिकमित्यर्थः। तच्च तीनसंक्लिष्टस्य मिथ्यात्वाऽभिमुखस्य सर्वविरतिचरमसमये भवति । (२) ततो मिथ्यात्वाभिमुखस्योत्कृष्टं प्रतिपातस्थानमनन्तगुणं तच्च मिथ्यात्वाऽभिमुखस्य तद्योग्यसंक्लिष्टस्य जीवस्य सर्व विरति चरसमये भवति । (३) ततोऽविरतसम्यक्त्वाऽभिः मुखस्य जघन्यं प्रतिपानस्थानमनन्तगुणम् । तच्चाऽविरतसम्यक्त्वाऽभिमुखस्य तद्योग्योत्कृष्टसंक्लिटस्य जीवस्यसविरतिचरमसमये भवति । (४) ततोऽविरतसम्यक्त्वाऽभिमुखस्योत्कृष्ट प्रतिपातस्थानमनन्तगुणम् । तच्चाऽविरतपम्यक्त्वाऽभिमुखस्य तद्योग्यसंक्लिष्टस्य जीवस्य सर्वविरतिचरमसमये भवति (५) ततो देशविरत्यभिमुखस्य जघन्यं प्रतिपातस्थानमनन्तगुणम् । तच्च देशविरत्यभिमुखस्य तद्योग्योत्कृष्टसंक्लिष्टस्य जीवस्य सर्वेविरतिचरमसमये भवति । (६) ततो देशविरत्यभिमुखस्योत्कृष्टं प्रतिपातस्थानमनन्तगुणम् । तच्च देशविरत्यभिमुखस्य तद्योग्यसंक्लिष्टस्य जीवस्य सर्वविरतिचरमसमये भवति । (७) ततः कर्मभूमिजजन्तोर्जघन्यमुत्पादकम्थानमनन्तगुणम् । तच्चाऽऽयंदेशजस्य मिथ्यादृष्टिचरस्य सर्वविरतस्य मन्दविशुद्धस्य संयमग्रहणे प्रथमसमये संभवति । (८) ततोऽनार्यभूमिजजन्तोर्जघन्यमुत्पादकस्थानमनन्तगुणम् । नच्चाऽनार्यदेशजस्य मिथ्यादृष्टि चरस्य सर्वविरतस्य मन्दविशुद्धस्य संयमग्रहणप्रथमसमये संभवति।
न चाऽनार्यदेशे धर्माऽभावेन संयमाऽभावः सिद्धः, संयमाऽभावेन चाऽनार्यदेश उत्पन्नम्योत्पादकस्थानं न संभवतीति वाच्यम् , अनार्यदेशे धर्माऽभावेऽप्यार्यदेश आगतस्याऽनार्यदेशोत्पन्नस्य संयमादिधर्मसंभवादाकुमारादिवत् ।
(8) ततोऽनार्यभूमिजजन्तोरुत्कृष्टमुत्पादकस्थानमनन्तगुणम् । तच्चाऽनार्यदेशजस्य सर्वविरतस्य तीव्रविशुद्धस्य देशविरतित आगतस्य संयमग्रहणप्रथमसमये संभवति । (१०) ततः कर्मभूमिजजन्तोरुस्कृष्टमुत्पादकस्थानमनन्तगुणम् । तनचाऽऽर्यदेशजस्य सर्वविरतस्य तीव्रविशुद्धस्य देशविरतित आगतस्य संयमग्रहणे प्रथमसमये संभवति । (११) ततः परिहारविशुद्धिजीवस्य जघन्यलब्धिस्थानमनन्तगुणम् । तच्चाऽनन्तरसमये परिहारविशुद्धितः प्रच्योष्यमाणस्य छेदोपस्थापनीयसंयमं गमिष्यतः परिहारविशुद्धिचरमसमये वर्तमानस्य भवति । (१२) ततः सर्वविशुद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org