________________
| गाथा ३०
लोकाकाशप्रदेशप्रमाणानि पट्स्थानपतितानि तत्परिणामयोग्य स्वामीनाम मावेनाऽन्तरयित्वा मनुस्यस्य जघन्यमप्रतिपाताऽप्रतिपद्यमानस्थानं प्राप्यते, यतो मनुष्यस्योत्कृष्ट प्रतिपद्यमानस्थानात् तज्जघन्यमप्रतिपाताऽप्रतिपद्यमानमनन्तगुणवृद्धम् । ततः परमसंख्येयलोकाकाशप्रदेशप्रमाणान षट्स्थानपतितानि लब्धिस्थानान्यतिक्रम्य तिरश्वो जघन्यमप्रतिपाताऽप्रतिपद्यमानस्थानं प्राप्यते । तच्च मनुष्यस्य मध्यमं संभवति । तत ऊर्ध्वं मनुष्यतिरश्चोः साधारणान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि षट्स्थानपतितान्यप्रतिपाताऽप्रतिपद्यमानस्थानान्युल्लङ्घ्य तिरश्व उत्कृष्टमप्रतिपाताप्रतिपद्यमानस्थानं प्राप्यते । तच्च मनुष्यस्य मध्यमं संभवति । ततः परं मनुष्यस्य सर्वाण्येवाप्रतिपाताऽप्रतिपद्यमानस्थानानि षट्स्थानपतितानि वक्तव्यानि ।
६ ]
उपशमनाकरणम्
संप्रति नवभिर्द्वारे देशविरतः प्ररूप्यते
तद्यथा- (१) सत्पदम् (२) द्रव्यम् (३) क्षेत्रम् (४) स्पर्शना ( ५ ) काल : ( ६ ) अन्तरम (७) भागः (८) भाव: (२) अल्पबहुत्वम् ।
(१) सत्पदप्ररूपणा - ननु किं जगति देशविरतस्य सत्ताऽस्ति ? अस्ति ।
१
(२) द्रव्यम् - विश्वे देशविरताः कतिपया जीवाः १ देशविरता जीवभेदेन द्विधा (१) पर्या तगर्भज मनुष्याः ( २ ) पर्याप्त गर्भजतिर्यञ्चः । तत्र देशविरता मनुष्याः संख्ये यराशिप्रमाणाः, तिर्यग्जीवाश्च देशविरताः क्षेत्रपल्योपमाऽसंख्येयतमभागप्रदेशराशिप्रमाणा भवन्ति ।
(३) क्षेत्रम् - क्षेत्रतो देशविरता मनुष्याः स्वस्थानतः सार्धद्वयद्वीप एव भवन्ति, तिर्य-ञ्चश्च देशविंग्ता स्वस्थानतः लोकत्रये सन्ति, तत्राप्यूर्ध्व देशैकदेशे पाण्डकवनादौ, अधोलोकैकदेशमागे समुद्राद, अबोलौकिकग्रामे च ।
(४) स्पर्श - देशविरताना स्पर्शना पडुरज्जुप्रमाणा मरणसमुद्घाताऽपेक्षया तेषामच्युतपर्यन्तगमनात् ।
(५) कालः - एकजीवमनुलक्ष्य देशविरतेर्जघन्यतोऽन्तर्मुहूर्तम्, उत्कृष्टतस्तु देशोन पूर्वकोटिवर्पप्रमाणः कालः । अनेकजीवमाश्रित्य देशविरता सर्वदा मवन्ति ।
(६) अन्तरम् - एकजीवमाश्रित्य जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतो देशोनार्धपुद्गलपरावर्तकालप्रमाणम् अनेकजीवमवलम्ब्याऽन्तरं न भवति ।
(७) मागः - देशविरता जीवाः सर्वजीवर शेरनन्ततमभागप्रमाणाः । (८) भावः - देशविरतेर्भावस्तुक्षायोपशमिकः ।
(९) अल्पबहुत्वम् - देशविरता मनुष्या अल्पाः, ततो देशविरतास्तिर्यञ्चोऽसंख्येयगुणाः । ननु देशविरतिलब्धिरौदयिकमात्र उत क्षायोपशमिकभावे ? उच्यते - क्षायोपशमिकभावे, कथमिति चेद् ? उच्यते, देशविरतस्याऽप्रत्याख्यानावरणस्योदयो न भवतीति कृत्वौदयिकभावे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org