________________
و
अव्यवसायस्थापनावर्णनम् ]
देशविरतेरधिकार:
[ ६५
ततः परमसंख्येयलोकाकाशप्रदेशमात्राणि प्रतिपद्यमानानि स्थानानि देशविरतिं च प्रतिपद्यमानस्यैतानि भवन्ति, देशसंयमप्रथमसमय एतेष्वन्यतमद्भवति ।
ततोऽसंख्येयलोकाकाशप्रदेशप्रमाणानि लब्धिस्थानान्यन्तरयित्वाऽसंख्ये यलोकाकाशप्रदेशप्रमाणान्यप्रतिपाताऽप्रतिपद्यमानस्थानानि भवन्ति, एतानि च देशविरतिप्राप्तेर्द्वितीयसमयात् प्रभृति सर्वविरतिं प्रतिपत्स्यमानस्य देशविरतिचरमसमयं यावत् तथा देशविरतितो निवर्त्स्यतस्तु देशविरतस्याऽऽद्विचरमसमयं भवन्ति । तथैव सर्वविरतितः प्रश्च्युत्य देशविरतिं प्रतिपद्यमानस्याऽध्यप्रतिपाताऽप्रतिपद्यमानस्थानं संभवति । एतेषु त्रिविधेषु लब्धिस्थानेषु जघन्यलब्धिस्थानादारभ्याऽसंख्येयलोकाकाशप्रदेशप्रमाणानि षट्स्थानपतितानि लब्धिस्थानानि मनुष्यस्यैव भवन्ति ततस्तिरो जघन्यं प्रतिपातलब्धिस्थानम्, ततः परमसंख्येयलोकाकाशप्रदेशप्रदेशप्रमाणानि नरतिर्यग्जीव साधारणानि षट्स्थानपतितानि प्राप्यन्ते । तत ऊर्ध्वं मनुष्यस्याऽसंख्येयलोकाकाशप्रदेशप्रमाणानि पद्स्थानपतितानि देशसंयमलब्धिस्थानानि गत्वा मनुष्यस्योत्कृष्टलब्धिस्थानं प्राप्यते ।
तथाहि - देशसंयमस्य सर्वजघन्यं प्रतिपातस्थानं मनुष्ये भवति । ततः परमसंख्येयलोकाकाशमात्राणि षट्स्थानपतितानि प्रतिपातस्थानानि केवलं मनुष्यस्य, तत ऊर्ध्वं तिरश्वो जघन्यं प्रतिपातस्थानम्, यतो मनुष्यस्य जघन्यप्रतिपातस्थानात् तिरवो जघन्यप्रतिपातस्थानमनन्तगुणवृद्धं प्राप्यते, एवं सर्वत्रोहनीयम् । तच्व मनुष्यस्य तु मध्यमं संभवति, ततः परमसंख्येयलोकाकाशप्रदेशप्रमाणानि पट्स्थानपतितानि प्रतिपातस्थानानि नरतिर्यग्जीवयोरुभययोः संभवन्ति, तत ऊर्ध्वं तिरबोत्कृष्टलब्धिस्थानम् । तच्च मनुष्यस्य मध्यमं भवति । ततः परं मनुष्यस्याऽसंख्येयलोकाकाशप्रदेशप्रमाणानि षट्स्थानपतितानि प्रतिपतिस्थानानि प्राप्यन्ते । ततो मनुष्यस्योत्कृष्टप्रतिपातस्थानात्परमसंख्येय लोकाकाशप्रदेशप्रमाणानि षट्स्थानपतितानि लब्धिस्थानानि तत्परिणामयोग्यस्वाम्यभावेनाऽन्तरयित्वा मनुष्यस्य जघन्यं प्रतिपद्यमानस्थानं प्राप्यते, यतो मनुष्यस्योत्कृष्टप्रतिपातस्थानतो मनुष्यम्य जघन्यं प्रतिपद्यमानस्थानमनन्तगुणवृद्धम्, एवं सर्वत्रोहनीयम् ।
ततः परमसंख्येयलोकाकाशप्रदेशप्रमाणानि षट्स्थानपतितानि लब्धिस्थानानि मनुष्यस्यैव संभवन्ति । तत ऊर्ध्वं मनुष्यस्य मध्यमत्वेऽपि तिरथो जघन्यं प्रतिपद्यमानस्थानं प्राप्यते । ततः परं मनुष्य तिर्यग्जीवशेः साधारणान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि षट्स्थानपतितानि लब्धिस्थानानि वक्तव्यानि । ततः परं तिरश्च उत्कृष्टप्रतिपद्यमानस्थानं प्राप्यते तच्च मनुष्यस्य मध्यमं संभवति । तत ऊर्ध्वमसंख्येयलोकाकाशप्रदेशप्रमाणानि षट्स्थानपतितानि मनुष्यस्यैव प्रतिपद्यमान स्थानानि नेतव्यानि ततो मनुष्यस्योत्कृष्टप्रतिपद्यमानस्थानं प्राप्यते, ततोऽसंख्येय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org