SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ लब्धिस्थानानि ] देशविरतेरधिकारः (१०) ततस्तिरश्वो जघन्यमप्रतिपाताऽप्रतिपद्यमानस्थानमनन्तगुणम् । देशविरतस्य तिर्यग्जीवस्य प्रथमगुणस्थानतः सम्यक्त्वदेशविरती युगपदधिगतस्य देशविरतिप्रतिपत्तेद्वितीयसमये घटमानं जघन्यमप्रतिपाताऽप्रतिपद्यमानस्थानं संभवति । तच्च पूर्वतोऽनन्तगुणं वाच्यम् । यतो मनुष्यस्य जघन्याऽनुभागस्थानतोऽसंख्येयलोकाकाशप्रदेशप्रमाणषट्स्थानपतितानि स्थानान्युऽल्लङ्घ्य तिश्चो जघन्यस्थानमायाति । (११) ततस्तिरश्च उत्कृष्टमातिपाताऽप्रतिपद्यमानस्थानमनन्तगुणम् । देशविरतम्य तिर्यग्जीवस्याऽवितसम्यक्त्वतो देशविरति प्रतिपन्नस्य स्वयोग्यसर्वोत्कृष्टविशुद्धिविशिष्टम्य या देशविरतिप्राप्तः प्रभृत्यन्तमुहर्तपर्यन्तं पूर्वपूर्वसमयत उत्तरोत्तरसमय एकान्ताऽनन्तगुणा वृद्धिर्भवति, तस्वरमसमये घटमानमुत्कृष्टमप्रतिपाताऽप्रतिपद्यमानस्थानं संभवति, यद्वा स्वस्थानतीवविशुद्धस्यानन्तानुवन्धिवियोजकस्य करणत्रयाय तीव्रविशुद्धौ वर्तमानस्य । तच्च पूर्वतोऽनन्तगुणम् , पूर्वतोऽसंख्येयलोकाकाशप्रदेशप्रमाणस्थानान्यतिक्रम्य प्राप्यमाणत्वात् । (१२) ततो मनुष्यस्योत्कृत्टाऽप्रतिपाताऽप्रतिपद्यमानस्थानमनन्तगुणम् । सर्वोत्कृष्ट विशुद्धिविशिष्टस्य देशविरतस्य सर्वविरत्यभिमुखस्य चरमसमयेऽपूर्द करणचरमसमये संभवदुत्कृष्टमप्रतिपाताऽप्रतिमद्यमानस्थानं भवति । तच्च पूर्वतोऽनन्तगुणं भवति । उक्तश्च कषायप्राभृतचूणौं- (१) "सव्वमंदाणुभागं जहण्णं संजमासंजमस्स लडिट्ठाणं मणुसस्स पडिवदमाणस्स जहणणयं लडिट्ठाणं तत्तियं चेव । (२) तिरिक्खजोणियस्स पडिवदमाणयस्स जहण्णयं लडिट्ठाणमणंतगुणं । (३) तिरिक्खजोणियस्स पडिवदमाणस्स उक्कस्सयं लडिट्ठाणमणंतगुणं । (४) मणुससंजदासंजदस्स पडिवदमाणगस्स उक्कस्सयं लडिट्ठाणमणंतगुणं । (५) मणसस्स पडिवजमाणगस्स जहणणयं लडिठ्ठाणमणंतगुणं । (६) तिरिक्खजोणियस्स पडिवज्जमाणस्स जहण्णयं लडिट्ठाणमणंतगुणं । (७) तिरिक्खजोणियस्स पडिवज्जमाणस्स उक्कस्सयं लडिहाणमणतगुणं । (८) मणसस्स पडिवज्जमाणस्स उक्कस्सयं लडिट्ठाणमणंतगुणं । (६) मणुसस्स अपडिवज्जमाणअपडिवदमाणस्स जहण्णयं लडिट्ठाण मणंतगुणं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy