SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ६२ ! उपशमनाकरणम [ गाथा-३० (२) ततः प्रतिपद्यमानस्थानान्यसंख्येयगुणानि । (३) ततोऽप्रतिपाताऽप्रतिपद्यमानस्थानान्यसंख्यातगुणानि । (४) तीव्रमन्दताप्ररुपणा-अथ तीव्रतामन्दतेऽधिकृत्याऽल्पबहुत्वमुच्यते(१) तत्र देशविरतस्य मनुष्यस्य जघन्य प्रतिपातस्थानमल्पम् । सर्वसंक्लिष्टस्य मनुष्यस्य देशविरतेश्वरमसमये तदनन्तरसमये मिथ्यात्वं प्रतिपत्स्यमानस्य संभवज्जघन्यप्रतिपातस्थानम् । तच्च सर्वमन्दलब्धिम्थानम् । (२ ततो देशविरतस्य तिरश्च जघन्यं प्रतिपातस्थानमनन्तगणम् । मिथ्यात्वाऽभिमुखस्य संक्लिष्टस्य देशविरतस्य तिरश्वो देशविरतिचरमसमये घटमानं जघन्यं प्रतिपातस्थानं भवति । तच्च पूर्वतोऽनन्तगुणम् । (३) ततो देशविरतस्य तिरश्च उत्कृष्टं प्रतिपातस्थानमनन्तगुणम् । देशविरतस्य मनुष्यस्य तत्प्रायोग्यसंक्लिष्टस्याऽनन्तर समयेऽविस्तसम्यक्त्वगुणस्थानकं गमिप्यतो देशविरतिकालचरमसमये संभवदुत्कृष्टं प्रतिपातस्थानं भवति. तच्च पूर्वतोऽनन्तगुणम् । (५) ततो मनुष्यस्य जघन्यं प्रतिपद्यमानस्थानमनन्तगणम् । देशसंयतस्य मनुष्यस्य मिथ्यात्वगुणस्थानकतः सम्यक्त्वेन सह देशविरतिं प्रतिपद्यमानस्य तत्प्रथमसमये संभवजघन्यं प्रतिपद्यमानस्थानं भवति । तच्च पूर्वतोऽनन्तगुणं भवति । (६) ततस्तिरश्चो जघन्यं प्रतिपद्यमानस्थानमनन्तगुणम् । देशविरतस्य तिरथो मिथ्यात्वतः मम्यक्त्वदेशसंयमौ युगपदभिगच्छतस्तत्प्रथमसमये घटमानं जघन्यं प्रतिपद्यमानस्थानं भवति । तच्च पूर्वतोऽनन्तगुणं वर्तते । (७) ततस्तिरश्च उत्कृष्ट प्रतिपद्यमानस्थानमनन्तगुणम् । देशविरतस्य तिरश्वोऽविरतसम्यक्त्वगुणस्थानकतो देशविरतिं प्राप्नुवतस्तत्प्रथमसमये संभवदुत्कृष्टं प्रतिपद्यमानस्थानं भवति । तच्च पूर्वतोऽनन्तगुणं विद्यते । (८) ततो मनुष्यस्योत्कृष्ट प्रतिपद्यमानस्थानमनन्तगुणम् । देशविरतस्य मनुष्यस्याऽविरतसम्यक्त्वतो देशविरति लभमानम्य तत्प्रथमसमये घटमानमुत्कृष्टं प्रतिपद्यमानस्थानं संभवति । तच्च पूर्वतोऽनन्तगुणं भवति । (९) ततो मनुष्यस्य जघन्यमप्रतिपाताऽप्रतिपद्यमानस्थानमनन्तगुणम् । देशविरतस्य मनुष्यस्य मिथ्यात्वतः सम्यक्त्वेन सह देशविरतिं प्रतिपन्नस्य तद्वितीयसमये घटमानं जघन्यमप्रतिपाताप्रतिपद्यमानस्थानं भवति । तच्च पूर्वतोऽनन्तगुणमस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy