SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ st देशविरतेरधिकार: [ १ स्थानप्ररूपणा ] ततोऽसंख्येय भागमात्र स्पर्धकैरधिकमेकं स्थानं वाच्यम्, एवमनन्तभागवृद्धकण्डक व्यवहितान्यसंख्येयमागाधिकानि स्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि स्थानानि गतानि भवन्ति, ततः परमनन्तभागकण्डकं व्यतीत्यैकं संख्येयभागाधिकं स्थानं द्रष्टव्यम् । ततः परतो मूलादारभ्य यावन्ति स्थानानि व्यतिक्रान्तानि तावन्त्यतिक्रम्य द्वितीयं संख्येयभागाधिकं स्थानं वक्तव्यम् । तान्यपि संख्येय मागाधिकानि स्थानान्युपदर्शितप्रकारेण तावद्वाच्यानि यावत्कण्डकमात्रस्थानानि गतानि भवन्ति । एवं पूर्वपरिपाट्या संख्येयगुणाधिकान्यसंख्येयगुणवृद्धान्यनन्तगुणवृद्वानि स्थानानि कण्डकमात्रण्यभिधातव्यानि । इदं चैकं पदस्थानम् अनेन षट्स्थानक्रमेण पतितान्य संख्ये यलोकाकाशप्रदेशराशिमात्राणि संयमासंयमलब्धिस्थानानि भवन्ति । उक्तं च कषायप्राभृतचूर्णो “एतो संजदासंजदस्स लडिद्वाणाणि वत्तइस्सामो, तं जहां जहवयं लडिद्वाणमनाणि फड्डुयाणि । तदों विदियलब्धिठ्ठाणमणंतभागुत्तरं । एवं लहाणपदिदल हिट्ठाणाणि असंखेज्जा लोगा" इति । एतानि संयमासंयमलब्धिस्थानानि त्रिविधानि । तद्यथा (१) कानिचित्प्रतिपातस्थानि (२) कतिचित्प्रतिपद्यमानस्थानानि (३) कियन्तिचिदप्रतिपाताऽप्रतिपद्यमानस्थानानि । तत्र प्रत्येकं मनुष्यतिर्यञ्चाववधिकृत्य द्विधेति षड्विधानि, तत्राऽपि जघन्योत्कृष्टभेदाद् द्वादशविधानि संयतासंयतलब्धिस्थानानि प्राप्यन्ते । (१) प्रतिपातस्थानम् - अनन्तरसमये संयताऽसंयतलब्धितः प्रपतता जन्तुना देशविरतेश्वरमसमये प्राप्यमाणं लब्धिस्थानम् । (२) प्रतिपद्यमानस्थानम् - देशविरति प्रतिपद्यमानेन जन्तुना तत्प्रतिपत्तिप्रथमसमये प्राप्यमाणं संयताऽसंयतलब्धिस्थानम् । (३) अप्रतिपाताऽप्रतिपद्यमानस्थानम् - देशविरतेः प्रथमसमयं चरमसमयं च वर्ज - यित्वा शेषसमयेषु प्राप्यमाणानि संयमासंयमलब्धिस्थानान्यप्रतिपाताऽप्रतिपद्यमानान्युच्यन्ते, तथा चाऽनन्तरसमये सर्वविरतिं प्रतिपत्स्यमानस्य देशविरतस्य चरमसमये संयमाऽसंयमलब्धिस्थानमप्यप्रतिपाताऽप्रतिद्यमानस्थानमुच्यते । तत्राल्पबहुत्वम् (१) प्रतिपातस्थानानि सर्वतः स्तोकानि । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy