________________
८८ ]
उपशमनाकरणम्
[गाथा -३. (१०) तत उत्कृष्टाबाधा संख्येयगणा ।।
अपूर्वकरणस्य प्रथमसमयस्थितिबन्धस्याऽवाधाकालः पूर्वतः संख्यातगुणाः, कारणं तु प्रथमसम्यक्त्वाऽधिकारगताऽल्पबहुत्ववज्जोयम् ।
एतेऽनन्तरोक्ताः सर्वेऽपि काला अन्तमुहर्तमात्राः । (११) ततो जघन्य स्थितिखण्डमसंख्येयगुणम् ।
एकान्तवृद्धिदेशसंयतस्य चरमस्थितिखण्डं पूर्वतोऽगंख्येयगुणमित्यर्थः । अबाधाकालस्याऽन्तमुहर्तमात्रत्वेन चरमस्थितिखण्डस्य च पल्योपमसंख्ये पभागप्रमाणत्वेन पूर्वतोऽसंख्येयगुणत्वम् , यतोऽन्तमुहर्ततोऽसंख्येयगुणः पल्योपमसंख्येयतमभागप्रमाणकालः ।
(१२) ततोऽपूर्वकरणस्य प्रथमं जघन्यस्थितिखण्डं सख्येयगुणम् ।
अपूर्वकरणस्य प्रथमजघन्यस्थितिखण्डमपि पल्योपम संख्येय भागमात्रं किन्तु पूर्वतः संख्येयगुणं बृहत्तरम् ।
(१३) ततः पल्पोपमं संख्येयगुणम् । पूर्वपदस्य पल्योपमसंख्येयभागमात्रत्वात् । (१५) तत उत्कृष्ट स्थितिखण्डं संख्येयगुणम् । उत्कृष्टस्थितिखण्डस्य सागरोपमपृथक्त्वमात्रत्वेन पूर्वतः संख्येयगुणन्त्रम् । (१५) ततो जघन्यस्थितिबन्धः संख्येयगुणः । एकान्तवृद्धिदेशसंयतस्य चरमसमयभाविजघन्यस्थितिबन्धः पूर्वतः संख्येयगुणः : (१६) तत उत्कृष्टस्थितिबन्धः संख्यातगुण । अपूर्वकग्णस्य प्रथमममयभाव्युत्कृष्टस्थितिबन्धः पूर्वतः संख्येय गुणो भवति । (१७) ततो जघन्यं स्थितिसत्कर्म संख्येयगणम् । एकान्तवृद्धिदेशसंयत्तस्य चरमसमये जघन्यस्थितिमत्कर्म प्राप्यते, तच्न पूर्वतः संग्ग्ये यगुणम् । (१८) तत उत्कृष्टं स्थितिसत्कर्म संख्येयगुणम् अपूर्वकरणस्य प्रथमसमयवर्तिजन्तुनोत्कृष्ट स्थितिसत्कर्म प्राप्यते, तच्च पूर्वतः संख्येयगुणम् ।
उक्तं च कषायभूतचूणौ---- "नदो एदिस्से पझवणाए सम्मत्ताए संजमासंजमपडिवज्जमाणगस्स पढमअपुव्वकरणादो जाव संजदासंजदी पयंताणवडोए चरित्ताचरित्तलडीए वद्धृदि, एदम्हि काले हिदिबंधहिदिसंतकम्मट्टिदिग्वं डया जहपणकस्सयाणमाबाहाणं जहण्णकस्सियाणमुक्कीरणहाणं जहण्णकसियाणं अण्णसिं पदाणमप्पाबहु वत्तहस्सामो त जहा--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org