________________
अल्पबहुत्वम् ]
देश विरतेरधिकारः अपूर्वकरणप्रथमसमयादारभ्यमानाऽनुभागखण्डोत्कीर्णकालपूर्वतो विशेषाऽधिकः, कारणं तु प्रथमोपशमिकसम्यक्त्वाऽधिकारगत'ऽल्पबहुत्ववज्ज्ञेयम् ।
(३) ततो जघन्य स्थितिखण्डोत्कीणांडा जघन्य स्थितिषन्धाडा चोभावपि संख्येयगणे परस्परं च तुल्ये ।
एकान्तवृद्धिदेशसंयतस्य चरमसमये समाप्यमानस्थितिखण्डोस्कीर्णकालः समाप्यमानस्थितिबन्धकालच पूर्वतः संख्येयगुणो परस्परं च तुल्यो। कारणं तु प्रथमोपमिकसम्यक्त्वाधिकारगताऽल्पबहुत्ववद् द्रष्टव्यम् ।
(४) तत उत्कृष्टौ विशेषाऽधिको।
अपूर्वकरणप्रथमसमय आरभ्यमाणस्थितिखण्डोत्कीर्णकाल आरभ्यमाणस्थितिबन्धकालश्च विशेषाऽधिको तुन्यौ च भवतः । हेतुस्तु प्रथमोपशमिकसम्यक्त्वाऽधिकारगताऽन्पबहुत्ववज्जोयः ।
(५) ततः प्रथमसमयवर्तिसंयतासंयतस्य प्रथमसमयादारभ्य यस्मिन्काल एकान्तवृड्या संयमाऽसंयमपर्याया वर्धन्ते, एष वृद्धिकालः संख्येयगणः, एकान्तवृडिदेशसंयतकालः मंख्येषगण इति यावत् ।
देशविरतेः प्रतिपत्तरनन्तरसमय दन्तमुहृतपर्यन्तं प्रवर्धमानपरिणामी भवति, तौकस्मिन्नन्तमुहर्तकाले सहस्रशः स्थितिघाता भवन्तीति पूर्णतः संख्यातगुणः ।
(६) ततोऽपूर्वकरणाडा संख्येयगुणा । देशसंयतस्याऽपूर्वकरणकालस्याऽन्तमुहर्तप्रमाणत्वेऽपि पूर्णतः संख्येयगुणेन वृहत्तरत्वम् ।
(७) ततो जघन्यसंयमासंयमाडा, सम्यक्त्वाडा, मिथ्यात्वाहा, संयमाडा असंयमाडा, सम्यक्त्वमिथ्यावाडा चैताः षरद्धाः पूर्वतः संख्येयगुणाः परस्पर तुल्या ।
मिथ्यात्वगुणस्थानकस्य मिश्रगुणस्थानंकस्य क्षायोपशमिकसम्यक्त्वस्य देशविरतस्याऽविरतस्य सर्नविरतस्य च जघन्यकालः पूर्णतः संख्येयगुणः परस्परं च तुन्यः । एतच्च निा . घाताऽपेक्षया द्रष्टव्यं व्याघाते त्वेकसमयोऽन्तमुहूर्तो वा यथाश्रुतं परिभावनीयः ।।
(८) ततो गुणश्रेणिः संख्येषगुणा। देशविरतस्य गुणश्रणिनिक्षेपः र्वतः संख्येयगुणः । (६) ततो जघन्यावाधा संख्येयगुणा। एकान्तवृद्धिदेशसंयमस्य चरमस्थितिवन्धस्याऽनाधाकालः पूर्वतः संख्यातगुणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org