________________
विरते: प्राप्तिक्रमः ] चारित्रमोहनीयस्योपशमनाधिकारः
[ ८५ पूर्वपूर्वसमयादत्तरोत्तरसमये वर्धमानपरिणामी भवति, कश्चिद्वीयामानपरिणामी कश्चिच्चाऽवस्थितपरिणामी भवति ।
करणं विना ये देशविरति सावरतिं वा प्रतिपद्यन्ते, तेषां प्राप्तिक्रमं व्याजिहीपुराहपरिणामपच्चयायो णाभोगगया गया प्रकरणाउ । गुणसेही मि निच्चं परिणामा हाणिवुड्डिजुया ॥३०॥ परिणामप्रत्ययादनाभोगगता गता प्रकरणास्तु ।
गुणश्रेणिस्तयोनित्य परिणामहानिवृद्धियु ताः ॥ इति पदसंस्कार: "परिणामपच्चयाओ" ति, परिणामप्रत्ययात् परिणामहासलक्षणकरणात् 'अनाभोगेन' आभोगाऽभावेनाऽमरङ्गकर्मोदयजनितमंक्लेशेन 'गता' देशविरतिपरिणामात्परिभ्रश्याऽविरति गताः, सर्वविरतिपरिणामाच्च च्युत्वा देशविरतिमविरतिं. वा गता अन्पाऽन्तम हूत तत्र स्थित्वा स्थितिसत्कर्माऽवर्धमाना भूयोऽपि प्रागभ्युपगतां देशविरतिं सर्वविरतिं वा प्रतिपद्यमाना अकरणा अकृतयथाप्रवृत्तकरणाऽपूर्वकग्णाख्यकरणाः सन्तः प्रतिपद्यन्ते, यथाप्रवृत्तकरणाऽपूर्वकरणे न कुर्वन्तीत्यर्थः । उक्तं च कषायप्राभतचूर्णी-"जदिसंजमा जमादो परिणामपच्चएण णिग्गदी पुणो वि परिणामपच्चरण अतोमुहत्तेण आणीदो संजमासंजमं पडिवज्जइ तस्स वि णस्थि ठिदिघादो वा अणुभागघादो वा इति" ।
संजमादो णिग्गदो असंजमं गंतूण जो हिदि संतकम्मेण अणव ड्डिदेण पुणो संजमं पडिवज्जदि तस्स संजमं पडिवज्जमाणस्स णस्थि अपुव्वकरणं णस्थि हिदिघादो, णस्थि अणुभागघादो।" इति ।
तेषां स्थितिवातरसघातो न भवतः, करणद्वयेन विना देशविरतिसर्व विरतिग्रहणात् । ये पुनराभोगेन देशविरतितः सर्वविरतितो वा प्रतिपतिता आभोगेनैव च मिथ्यात्वं गताः, ते तत्र जघन्यतोऽन्तमुहर्तकालं स्थित्वोत्कृष्टतः प्रभूतं कालं स्थित्वा भूयोऽपि देशविरतिं सर्वविरतिं वा करणपूर्विकामेव प्रतिपद्यन्ते । तथा चाऽऽहुदेशविरतिं प्रतिपाद्यामानाः कषायप्राभत. चर्णिकारा:- "यदि संजमासंजमादो परिवदिदूण 5 आगुजाए मिच्छत्तं गंतुणं सदो संजमासंजमं पडिवज्जह अतोमुहुत्तेण वा विप्पकोण वा कालेण तस्स वि मंजमा जमपडिवज्जमाणस्स एदाणि चेव करणाणि कादव्वाणि ।" इत्यादि ।
"गणसेढी सिं निच्चं" इत्यादि, तथा यावद्देशविरति सर्वविरति वा परिपालयति तावदेषां देशविरतानां सर्वविरतानां वा प्रतिसमयं गुणश्रेणिपि भवति । नवरमत्र परिणामहा
ॐ प्रागुज्जनमागुज्जा संक्लेशभरेणाऽन्तराघूर्णनमित्यर्थः । (जयधवला)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org