________________
८४ ] उपशमनाकरणम्
[ गाथा २९ स्य । उक्तं च नव्यशतकवृत्तौ वादिघूकमातण्डैः श्रीमद्देवेन्द्रसूरीश्वरै:-"सम्यक्त्व. लाभकाले मन्दविशुद्धिकत्वात् जीवो दोर्चाऽन्तमुहूर्तवेद्यामल्पतरप्रदेशाऽग्रां च गणश्रेणिमारचयति, ततो देशविरतिला संख्येयगुणहीनाऽन्तर्मुहर्तवेद्यामसख्येयगणप्रदेशाऽग्रां च तां करोति, ततः सर्वविरतिलाभे संख्येयगणहोनाऽन्तमुहूर्तवेद्यामसंख्येयगुणप्रदेशाऽग्रां च तां करोति"
देशविरतस्य सर्वविरतस्य च गणश्रेणिनिक्षेपोऽवस्थित एव, न गलिताऽवशेषमात्रः, कोऽर्थः । यथा प्रथमोपशमिकसम्यक्त्वाऽधिकारेऽधस्तनाऽधम्तनोदयसमये वेदनतः क्षीणे सति शेषषु समयेषु दलिकं विरचयति. न पुनरुपरि गुणश्रेणिं वर्धयति । अत्र त्वधस्तनाऽधस्तनोदयसमये वेदनतः क्षीणे मति एकैकममयेन गुणश्रेणि वर्धयति । इत्थं देशविरतेः सर्वविरते, प्राप्तिसमये यो गुणश्रेणिनिक्षेपः स एव द्वितीयसमयादिषु वेदितः समयप्रमाणनिक्षेपो न्युनो न भवतीत्यर्थः। देशविरतेः सर्वविरतेश्च प्राप्तेः प्रथमसमयतो द्वितीयसमयेऽसंख्येयगणानि दलिकानि प्रथमसमयसत्कगुणश्रेणिनिक्षेपप्रमाणे निक्षेप एवाऽसंख्येयगुणकारेण विरचयति । अन्तमुहर्तकालं यावदनेनैव क्रमेण गुणश्रेणि रचयति । देशविरतेः सर्वविरतेर्वा प्रतिपत्त्यनन्तरं जन्तुरन्त हतं यावदवश्यमनन्तगणवृद्धय कान्तविशुद्धथा प्रवर्धमानपरिणामो भवति । उक्तञ्च कषायमाभतचूर्णी-संयमाऽधिकारे-"तदो पढमसमयसंजमप्पहुडि अंतोमुहत्तमणतगुणाए चरित्तलडिए वड्ढदि" इति । तावति काले नेकसहस्राणि स्थितिघाता भवन्ति। ततो यथाप्रवृत्तदेशसंयतो यथाप्रवृत्तसर्वसंयतो वा भवति । उक्तं च कषायप्राभूतचूर्णी संयमाऽसंयमाऽधिकारे-"एवं ठिदि खंरएसु बहुए गदेसु तदो अधापवत्तसंजदासंजदो जायदे।" इति ।
__ यथाप्रवृत्तदेशसंयतो यथाप्रवृत्तसर्वसंयतो वैकान्ताऽनन्तगुणवृद्धिकालात्परमनियतायां विशुद्धयामनियते सङ्कलेशे वा वर्तमानो देशविरतः सर्वविरतो वा यथाप्रवृत्तदेशसंयतो यथाप्रवृत्तसर्वसंयतो वोच्यते । यथाप्रवृत्तदेशसंयतस्य यथाप्रवृत्तसर्वसंयतस्य च स्थितिघातरघाती न भवतः, अवस्थिता गुणश्रेणिस्तु प्रवर्तते कश्चिद्यथाप्रवृत्तदेशसंयतस्सर्वसंयतो वा प्रतिसमयं
ॐ कषायप्राभृतौँ तु गुणश्रेणिरित्थं प्रतिपादिता........"संखेज्जसमयपबद्ध प्रोकड्डियूण गुण. सेढोए उदयावलिबाहिरे रचेदि'' भ.वार्थः पुनरयम्-आयुवर्जकर्मणां सत्तागतदलिकेभ्योऽसंख्यातकभागमपकृष्य पल्योपमाऽसंख्येयमागेन खण्डयित्वा तदबहुभागलिकं गुणश्रेणिोमुल्लङ्घ्य तदुपरितनस्थितिषु निक्षपेत् , पुनस्तदेकभागमसंख्यातलोकेन भक्त्वा तदेकभागमुदयावलिकायां विशेषहीन क्रमेण दत्त्वा तदबहुभागमसंख्यातसमयप्रबद्धमात्रं गुणश्रेण्यामेव प्रक्षिपति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org