________________
स्थितिघातादय: ]
चारित्रमोहनीयोपशमनाधिकारः
1
शेषकर्मणां स्थितिघातोऽशुमानां च रसघातोऽभिनवस्थितिबन्धश्च युगपदारभ्यन्ते स्तु नाऽऽरभ्यते । यतो यत्र क्षायिक औपशमिको वा गुणः प्राप्यते, तत्रैवाऽपूर्वकरणात्प्रभृति गुणश्रेणिरारभ्यते । तत्र स्थितिखण्डेषु जघन्यं स्थितिखण्डं पल्योपमसंख्येय भागप्रमाणमुत्कर्षतः स्थितिखण्डं सागरोपमपृथक्त्वप्रमाणं भवति । अन्तर्मुहूर्तेन कालेन प्रथमो रसघातः समाप्यते । एवमनेकसहस्रेषु रसघातेषु व्यतिक्रान्तेषु प्रथमस्थितिघातोऽभिनवस्थितिबन्धश्च परिसमाप्येते । द्वितीयः स्थितिघातः पत्योपमसंख्येयभागप्रमाणः स्थितिबन्धश्च पूर्वतः पल्योपमसंख्येय भागtaserat रसघातश्च प्रारभ्यन्ते, एवमनेकसहस्रषु स्थितिघातादिषु व्यतिक्रान्तेष्वपूर्वकरणं परिसमाप्यते । अपूर्वकरणे समाप्तेऽनन्तरसमये नियमादप्रत्याख्यानावरण कर्मक्षयोपशम जनितां संयमाऽसंयमध्याख्यां देशविरतिं प्रत्याख्यानावरणक्षयोपशमजनितां संयमलब्ध्याख्यां सर्वविरतिं वा प्रतिपद्यते, अत्र देशविरतेः सर्वविरतेर्वा क्षापोपशमिकगुणत्वेन "न उ तइयं" सि, तृतीयमनिवृत्तिकरणं न करोति । “पच्छा" त्ति, द्वयोः करणयोर्निष्ठितयोः सतोः पश्चादन्तर्मुहूर्त यावन्नियमतोऽनन्तगुण वृद्धयां विशुद्धयां जन्तुर्वर्तते ।
[ ८३
गुणश्रेणि
एकान्तवृद्धिदेशसंयतैकान्तवृद्धिसर्व संयतो वा- देशविरतेः सर्वविरतेः प्राप्तिसमयादन्तम् हतं यावत्प्रतिसमयमनन्तगुण वृद्ध्या प्रवर्धमानायां विशुद्धयां वर्तमानो देशसंयतः सर्वसंयतोऽनुक्रममेकान्तवृद्धिदेशसंयत एकान्तवृद्धिसमें संयत उच्यते ।
देशविरतेः सर्वविरतैर्वा प्राप्तिसमयादभिनवः स्थितिबन्धः स्थितिघातो रसघातथाऽऽरभ्यन्ते, तथोपरितनस्थितितो दलिकान्युत्कीर्याऽप्रत्याख्यानावरणस्योदयाऽभावेनोदयावलिकावर्जोपरतनार्तपर्यन्तं गुणश्रेणिं रचयति । ननु शेषकर्मणां कुतो गुणश्रेणिर्विरच्यते इति चेद् ? उच्यते, शेषोदयवतीनां प्रकृतीनामुदयसमयादारभ्याऽन्तमुहूर्तपर्यन्तं रचयति तथाऽनुदयवतीनां प्रकृतीनामुदयावलिकावर्जो परितन स्थितावन्तमुहूर्तपर्यन्तं विरचयतीति वयं ब्रूमः । अत्र देश विरतस्य यो गुणश्रेणिदलिकनिक्षेपायामोऽन्तमुहूर्तप्रमाण उक्तः, स प्रथमोपशमिकसम्यक्त्वगुणश्रेणिनिक्षेपात्संख्यातगुणहीनः ततोपि सर्वविरतस्य संख्यातगुणहीनः । दलिकनिक्षेपमाश्रित्य तु प्रथमौपशमिकसम्यक्त्व गुणश्रेणितोऽसंख्येयगुणा देशविरतस्य गुणश्रेणिः, ततोऽसंख्येयगुणा सर्वविरत
प्रत्र लब्धिसारे गुणेणिनिषेध इदं बीजमुक्तं तद्यथा- "मत्राऽपूर्वकरण कुतो गुणश्रेण्य भावः ? इति चेदुच्यते, उपशम सम्यक्त्वाऽभाषात्त निबन्धमगुणश्रेण्यभावः देशसंयमस्याऽद्याप्यग्रहणात्तन्निमित्तकगुणश्रेणैरप्यभावो वेदकसम्यक्त्वस्य च गुणश्रेणिहेतुत्वाऽभावादिति ब्रूमहे ।” इति ।
ॐ कषायप्राभृतचूर्णौ सर्वसंयतो यावदेकान्तविशुद्धयां वर्धते तावदपूर्वकरणसंज्ञ इत्युक्तः, अक्षराणि त्वेवम् " जाबचरितलडीए एगंताणबुडीए बड्ढदि ताव प्रपुष्वकरणसविदो भवदि ।”
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org