SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 賻 क्षयोपशमभाव: ] चारित्रमोहनीयस्योपशनाधिकारः [ ८१ संयमविरोधकत्वेऽप्यनन्तानुबन्ध्यादिकषायाणामनुदये सज्ज्वलनादीनां रसस्पर्द्धकानि देशघातिन्युदयन्ति, अतस्तानि चारित्रेऽतिचारानेवोत्पादयितुं समर्थानि न पुनरुपहन्तु ं समर्थानि । अतः सज्वलनादीनां देशघातिम्पर्द्धकानामुदयेऽपि क्षायोपशमिकं चारित्रं प्राप्यते । ननु सज्ज्वलनचतुष्कनवनोकषायरूपासु प्रकृतिषूदयमानासु चारित्रलब्धिरूपः क्षायोपशमिकभावः कथमिति चेद् ? उच्यते सर्वघातिप्रकृतीनां रसस्पर्द्धकानि सत्तायां सर्वघातिन्येव भवन्ति, सम्यक्त्वमोहनीयवजंदेशघ । तिप्रकृतीनां देशघातीनि सर्वघातीनि चोभयानि रसस्पर्द्धकानि सत्तायां विद्यन्ते तथा देशघातिप्रकृतीनां सर्वघातिरसस्पर्द्धकानामुदये सर्वघातिप्रकृतीनां विपाकत उदये स्वस्वावार्यगुणो नाऽभिव्यनक्ति, सर्वघातिप्रकृतीनां केवलं प्रदेशादये, देशघातिप्रकृतीनां च सर्वघातिरसस्पर्द्धकानि देशघातिरूपेण परिणम्योद्यन्ति, तदा क्षयोपशमभावः प्रागद्यते, यतो देशघातिरमस्पर्द्धकानि लब्धिमवरोद्ध न समर्थानि अत एव सज्ज्वलनचतुष्कनवनोकपायाणामुदयेऽप्यत्र क्षायोपशमिकं चारित्रमुच्यते । क्षयोपशमो नामाऽत्र देशघातिप्रकृतीनां स्वरूपतः सर्वधा तिरसस्पर्द्धकान्युदयाऽभाववन्ति तेषामनुभागस्याऽनन्तगुणहीन भवनादू देशघातिरूपेण च परिणम्य तान्युदयन्ति तदैव क्षयोपशमः, सम्यक्त्वमोहनीयस्य सर्वघातिस्पर्द्धकाभावेन सत्तायां देशघातिरसस्पर्द्धकान्येव भवन्ति, ततस्तस्या उदयेऽपि क्षयोपशमभावो न विरुध्यते अयं शब्दाऽर्थः क्षिक्षये' इति भ्वादि: 'क्षयणं क्षयः' 'युवर्णवृद्दवशरणगमृद्ग्रहः" सिद्धहेम० (५।३।२८) इति भावेऽल् क्षयः, सर्वघातिर सस्पद्धकानामनुभागस्याऽनन्तगुणहीनकरणमिति यावत्, देशघातिरसस्पर्द्धकानां च स्वरूपेणाऽवस्थानमुपशम इति क्षयोपशमः । यद्वा स्वस्वावारकसर्गघातीनां प्रकृतीनां विपाकोदयाऽभावलक्षणे प्रदेशोदये सति देशघातिप्रकृतीनां सर्वघातिस्पर्द्धकेषु विशुद्धाऽध्यवसायतो देशघातिरूपतया परिणमनेन निहतेषु देशघातिरसस्पर्द्धकेषु चाऽतिस्निग्धेष्वल्परसीकृतेषु तदन्तर्गतं कतिपयरसस्पर्द्धकभागस्योदयाafoni प्रविष्टस्य क्षये शेषस्य च विपाकोदयविष्कम्भलक्षण उपशमे क्षायोपशमिको गुणो प्रादुर्भवति । , न च सर्वघातीरसस्पर्द्धक प्रदेश । अपि सर्वस्वघात्यगुणघातनस्वभावा इति तत्प्रदेशोदयेSपि कथं क्षायोपशमिकभावसंभव इति वाच्यम् तेषां सर्वघातिरसस्पर्द्धक प्रदेशानामध्यवसायविशेषेण मनाग् मन्दानुभावीकृतविरल वेद्यमान देशघातिरसस्पर्द्धकेष्वन्तःप्रवेशितानां यथास्थितस्वबलप्रकटनाऽसमर्थत्वात् । संक्षेपतो यस्याः प्रकृतेरुदय आत्मगुणो नाऽवरुध्यते, तस्या उदयेऽपि क्षयोपशमभाव उच्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy