________________
८०] उपशमनाकरणम्
[ गाथा २८ तत्रैकवतादिग्राही देशविरतो भवतीत्याह-“एगव्वयाइ" इत्यादि, एकवतादिः, एकवतगाही, द्विव्रतग्राही, त्रिव्रतग्राहीत्येयं तावद्वान्यः, यावच्चरमोऽनुमतिमात्रः परिपूर्ण द्वादशव्रतधार्युत्कृष्टः श्रावकः प्रत्याख्यातसकलसावधव्यापारः केवलमनुमतिमात्रप्रतिसेवकः । तत्राऽनुमतिस्त्रिधा, प्रतिसेवनाऽनुमतिः प्रतिश्रवणाऽनुमतिः संवासाऽनुमतिश्च । (१) प्रतिसेवनाऽनुमतिः तत्र यः स्वयं परैर्वा कृतं पापं श्लाघते सावद्याऽऽरम्भोप
पन्नं वाऽशनाद्यपभुङ्क्ते, तस्य प्रतिसेवनाऽनुमतिः।। (२) प्रतिभवणाऽनुमतिः-यदा तु पुत्रादिभिः कृतं पापं शृणोति, श्रुत्वा चाऽनुमन्यते
न च प्रतिषेधयति, तदा प्रतिश्रवणाऽनुमतिः । (३) संवासाऽनुमतिः-यः सावद्याऽऽरम्भप्रवृत्तेषु पुत्रादिषु केवलं ममत्वयुक्तो भवति, नाऽन्यत्किञ्चिच्छणोति श्लाघते वा, तस्य संवासाऽनुमतिः।।
तत्र यः संवासाऽनुमतिभागमेव सेवते, स चरमभङ्ग उत्कृष्टदेशविरतः। सर्वश्रावकाणां गुणोत्तमो भवति । देशविरतस्याऽनिष्टयोगातमिष्टवियोगात रोगात निदानातमिति चतुर्विधमार्तध्यानं तथा हिंसानन्दरौद्रं मृषावादानन्दरौद्रं चौर्यानन्दरौद्रं संरक्षणानन्दरौद्रमिति चतुर्धा रौद्रध्यानं मन्दं भवति धर्मध्यानं च मध्यमं भवति, न तूत्कृष्टम् , यत उत्कृष्टधर्मध्यानं सर्वविरतस्यैव भवति, उक्तं च-"आतं रौद्र भवदेत्र मन्दः धयं तु मध्यम् ।
षटकर्मप्रतिमाश्राव्रतपालनसंभवम् ॥१।। इति "अणमइविरओ" ति, यः पुनः संवासाऽनुमतेरपि विरतः, स सर्वविरत उच्यते । तत्र सर्वविरतिस्त्रिधा (१) औपशमिकचारित्रम् (२) क्षायिकचारित्रम् (3) क्षायोपशमिकचारित्रम् ।
(१) चारित्रमोहनीयोपशमनादुद्भुतं चारित्रमौपशमिकचारित्रम् । (२) चारित्रमोहनीयस्य क्षयादभिव्यक्तं चारित्रां क्षायिकचारित्रम् ।
(३) चारित्रमोहनीयस्य सर्वधातिप्रकतीनां विपाकेनोदयाऽभावात्सज्वलनचतुष्कनवनोकषायरूपाणां च त्रयोदशप्रकृतीनां सर्वघातिरसम्पर्धकानामुदयाऽभावात् । तथा केवलं देशघातिरसम्पर्द्धकानामुदयाज्जायमानं चारित्र झायोपशमिकचारित्रमुच्यते । .. अत्राऽयं विशेषः-चारित्रलब्धिरात्मनो गुणोऽस्ति, म च कर्मोदयान्नाविर्भवति, अपि वावियते, अत एव यावत्सर्वघातिप्रकृतयोऽनन्तानुबन्ध्यादयो द्वादशोदये वर्तन्ते, तावच्चारित्रलाभः कस्यचिज्जीवस्य न भवति, किन्तु यदाऽनन्ताानुबन्ध्यादीनां द्वादशानां प्रकृतीनामुदया ऽमावे सति शेषसज्वलनादीनामपि च सर्वघातिरसस्पर्द्धकानामुदयाऽमावः प्राप्यते, तदा जन्तो. चारित्रं संभवति । सचलनचतुष्कनवने कषायरूपत्रयोदशप्रकृतीनां सर्वघाति रसस्पर्द्धकानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org