________________
अविरतादीनां स्वरूपम् ] चारित्रमोहनीयस्योपशमनाधिाकरः
[ ७६ अथ त्रयाणामप्यविरतादीनां स्वरूपमाविश्चिकीपुराह
अन्नाणाणभुवगमजयणाहिजयो अवज्जविरईए। एगब्बयाई चरिमो अणुमइमित्तो ति देसजई ॥२८॥ अणुमइ विरयो अ जई..... प्रज्ञानभ्युपगमयतनाभिरयतोऽवद्य विरतेः । एकवतादिचरमोऽनुमतिमात्र इति वेशयतिः ।।
अनुमतिविरतश्च यतिः........ .. .. --....--...--
म्वरूपम्-"अन्नाण" इत्यादि तत्र यो व्रतानि सम्यग् न जानाति, न चाऽभ्युपगच्छति, न च तत्पालनाय यतते, सोऽज्ञानाऽनभ्युपगमायतनाभिरविरतः । अत्र च त्रिभिः पदैरष्टी भङ्गाः प्राप्यन्ते । तद्यथा
(१) कश्चिज्जन्तुरज्ञानाऽनभ्युपगमायतनाभियुक्तः, यथा सर्वलोक इति प्रथमो भगः। (२) कश्चिज्जन्तुरज्ञानाऽनभ्युपगमयतनाभियुक्तः, यथाऽज्ञानतपस्वीति द्वितीयो भङ्गः। (३) कश्चिज्जन्तुरज्ञानाभ्युपगमायतनाभियुक्तः, यथा पार्श्वस्थ इति तृतीयो मङ्गः । (४) कश्चिज्जन्तुरज्ञानाऽभ्युपगमयतनाभियुक्तः, यथाऽगीतार्थ इति चतुर्थो भङ्गः। (५) कश्चिज्जन्तुआनाऽनभ्युपगमायतनाभियुक्तः, यथा श्रेणिकादयोऽविरता इति
पञ्चमो भङ्गः । (६) कश्चिज्जन्तु नाऽनभ्युपगमयतनाभियुक्तः, यथाऽनुत्तरदेव इति षष्ठो भङ्गः । (७) कश्चिज्जन्तुर्ज्ञानाऽभ्युपगमाऽयतनाभियुक्तः, यथा संविज्ञपाक्षिक इति सप्तमो भङ्गः। (८) कश्चिज्जन्तुआनाभ्युपगमयतनाभियुक्तः, यथा देशविरतः सर्वविरतो वेत्य
___ष्टमो भङ्गः ।
अत्र चाऽज्ञानशब्देन सम्यग्ज्ञानाऽभावो ग्राह्यः, न तु ज्ञानावरणकर्मविपाकोदयजनितमज्ञानम् । आयेषु चतुर्यु भङ्गेषु मिथ्यादृष्टयो भवन्ति, त्रिषु भङ्गेषु च सम्यग्दृष्टयोऽविरताः, एवं सप्तमङ्ग प्वविरता एव भवन्ति, यतो व्रतानि घुणाऽक्षरन्यायेन पालितान्यपि न यथावत् फलवन्ति, किन्तु सम्यग्ज्ञानसम्यग्ग्रहणपुरस्सरं पालितानि यथावत् फलवन्ति भवन्ति । चतुर्वाधेषु मङ्गषु सम्यग्ज्ञानाऽभावः, उत्तरेषु त्रिषु च सम्यग्ज्ञानसद्भावेऽपि सम्यग्ग्रहणसम्यग्पालनाऽभाव इति प्रथमेषु सप्तसु भङ्गेषु वर्तमानो नियमतोऽविरतः । चरमे भङ्ग तु वर्तमानोऽवद्यस्य पापस्य देशतो विरतेर्देशविरतो भवति । देशविरतस्य द्वादश व्रतानि । तद्यथा-"पाणिवहमुसावाए अदत्समेहुणपरिग्गहे चेव । दिसिभोगदंडसमईअं देसे पोसह तह विभागं ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org