SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ७] उपशमनाकरणम् (२५) ततो उत्कृष्टस्थितिसत्ता सख्यातगुणा । अपूर्वकरणस्य प्रथमसमये यत्स्थितिसत्कर्म, तदुत्कृष्टस्थितिसत्कर्म ज्ञेयम् । तच्च पूर्वतः संख्येयगुणम्, तत्कारणमुत्कृष्टबन्धवज्ज्ञेयम् । इति समाप्तः प्रथमोपशमिकसम्यक्त्वाऽधिकारः । सम्यक्त्वोत्पादप्ररूपणा विस्तरशःकृता । अथ चारित्रमोहनीयस्योपशमनाऽभिधीयते, तत्र चारित्रमोहनीयस्य प्रस्थापकं व्याजिदीषु राह वेगसम्मद्दिट्टी चरितमोहुव समाए चितो । जो देसजई वा विरतो व विसोहिश्रद्धाए ||२७|| [ गाथा २६-२७ वेदकसम्यग्दृष्टिश्चारित्रमोहोपशमाय चेष्टते । अयतिर्देशयतिर्वा बिरतो वा विशोध्यद्धायाम् ||२७|| इति पदसंस्कारः । "वेग" इत्यादि, वेदकसम्यग्दृष्टिः क्रोधादिचारित्र मोहनीयस्योपशमनाय चेष्टते = यतते । तत्र सम्यक्त्वमोहनीयं विपाकोदयतो मिश्रमोहनीयमिध्यात्वमोहनीये च प्रदेशोदयतो वेदयति, स वेदकसम्यग्दृष्टिरुच्यते क्षायोपशमिकसम्यग्वष्टिरिति यावत् । सूत्रस्य निर्देशमात्रत्वाद् "व्याख्यानतो विशेषप्रतिप्रत्तिः" इति न्यायेन कायिकसम्यग्दृष्टिश्वाऽपि ज्ञातव्यः, प्रथमौपशमिकसम्यग्दृष्टिस्तु चारित्रमोहनीयमुपशमयितु ं न यतते । तत्राऽन्यतरसम्यग्दृष्टिरविरतो वा देशविरतो सर्वविरतो वा सम्यगृष्टिर्विशोध्यद्वार्यां वर्तमानश्चारित्रमोहनीयोपशमनाय यतते । अविरतो नाम न व्यरमत् न्यवर्तत सावद्यव्यापारात्सोऽविरत उच्यते "गत्यर्थाऽकर्मकपियभुजेः " स (सिद्धम ५ | १ | १३) कर्तरि 'क्त' प्रत्ययः, एवं देशतः सावद्यव्यापारात् = पापव्यापाराद् व्यरमत् = देशविरतः सर्वतः पापव्यापाराद् व्यरमत् = स सर्वविरतः । अविरतानां प्रत्येकं द्वे द्वे अद्वे भवतः, संक्लेशाद्धा विशोध्याद्धा च । यस्यामद्वायामविरतो देशविरतः सर्वविरतो वा हीयमानपरिणामी भवति सा संक्लेशाद्धा इत्यर्थः । यस्यामद्वायामविरतो देशविरतः सर्वविरतो वा प्रवर्धमानपरिणामी भवति सा विशोध्यद्धा इत्यर्थः । अविरतो देशविरतः सर्वविरतो वा कदाचित्संक्लेशाद्धायां वर्तते कदाचिद् विशोध्यद्धायाम्, तत्र विशोध्यद्धायां वर्तमानो मोहनीयस्योपशमनाय यतते, न संक्लेशाऽद्धायाम् । चेष्टत इत्यनेनाऽविरतादयः चारित्रमोहनीयोपशमनाय पूर्व भूमिकायां वर्तन्त इति ज्ञाप्यते । " Jain Education International चारित्रमोहनीयोपशनाय यथाप्रवृत्तादिकरणानि तु सप्तमगुस्थानकप्रभृतिवर्तिभिः क्रियन्ते । तत्र क्षायोपशमिकसम्यगृष्टिः षष्ठगुणस्थानवर्ती सप्तमगुणस्थानकवर्ती वा प्रथमं दर्शन त्रिकस्योपशमनां करोति, ततो यथाप्रवृत्त करणाऽपूर्वकरणाऽनिवृत्तिकरणैश्चारित्र मोहनीयमुपशमयितु ं प्रवर्तते । For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy