SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ अल्पबहुत्वम् ] सम्यक्त्वाधिकारः क्रियाकालसमाप्त्यनन्तरं प्रथमस्थितित्वेन व्यपदेशो भवति । अतः प्रथमस्थितिकरणकालत एवाऽन्तरकरणक्रियाकालस्य किञ्चिन्न्यूनत्वे सिद्धेऽन्तरकरण क्रियाकालतः प्रथम स्थितेः संख्यातगुणत्वे न कञ्चिद् दोषः समुपजायते । (१२) तत उपशमकाडा विशेषाऽधिका । आधिक्यं च समयोनाssवलिकाद्विकेन ज्ञातव्यम् । प्रथमस्थितेः प्रथमसमयादारभ्योपशमनक्रियाऽऽरभ्यते, सा च प्रथम स्थितितोऽग्रेतनेषु समयेष्वप्यन्तरकरणाद्धार्या समयोनाऽऽवलिकाद्वयपर्यन्तं भवति, यतः प्रथमस्थितेश्वरम समये समयोनाssवलिकाद्वयेन बद्धदलिकमनुपशान्तं तिष्ठति । तच्च तावता कालेनाऽन्तरकरण उपशमयतीति प्रथमस्थितेः प्रथमसमयादारभ्याऽन्तरकरणाद्धायाः समयोनाssवलिकाद्वय पर्यन्तं सन् कालः उपशमकाद्धोच्यते, प्रत उपशमकाद्धा प्रथमस्थितितः समयोनाऽऽवलिकाद्वDarshan भवति, अतः पूर्वतो विशेषाऽधिका भवति । (१३) ततोऽनिवृत्तिकरणाडा संख्यातगुणा । प्रथमस्थितितोऽनिवृत्तिकरणकालः संख्यातगुणः, यतोऽन्तरकरण क्रियाकालन्यूनाऽनिवृत्तिकरण सत्कसंख्येयतमभागमात्रैव प्रथमस्थितिर्भवति, उपशमकाद्धा च प्रथमस्थितेः समयोनाऽऽवलिकाद्वयेनैवाऽधिका भवति, अतः पूर्वतोऽनिवृत्तिकरणकालः संख्यातगुणः । (१४) ततोऽपूर्व करणाद्वा संख्यातगुणा । अनिवृत्तिकरणकालस्यान्तर्मुहूर्तकालतोऽपूर्वकरण सत्काऽन्तमुहूर्तकालस्य संख्यातगुणेन बृहत्तरत्वात् । [ ७५ प (१५) ततो गुणश्रेणिनिक्षेपो विशेषाऽधिकः । गुणश्रेणिनिक्षेपोऽपूर्व करणाऽनिवृत्तिकरण रूपकरणद्वयकालात्किञ्चिदधिको भवति । तत्राऽ निवृत्तिकरणकालोऽपूर्वकरणकालतः संख्येयभागमात्र एव भवति, तस्मादपूर्वकरणकालतोऽपूर्वकरणकालसत्कसंख्यातभागतुल्याऽनिवृत्तिकरणकालेन गुणश्रेणिशिरोरूपकिश्चिदधिककालेन च गुणश्रेणिनिक्षेपस्याऽऽधिक्यम्, ततः पूर्वतो गुणश्रेणिनिक्षेपो विशेषाऽधिको द्रष्टव्यः । (१६) तत उपशान्ताडा संख्यातगुणा । उपशान्ताद्धा नाम उपशमसम्यक्त्वकालः, स चान्तर्मुहूर्त प्रमाणस्तथा पूर्वतः संख्यातगुणोबृहत्तरः । Jain Education International (१७) ततोऽन्तरं संख्यातगुणम् । अन्तरं नाम मिथ्यात्वदलिकरहिताऽन्तमुहूर्तप्रमाणा स्थितिः । न चोपशान्ताद्वातोऽन्तरं संख्यातगुणं कथमुच्यते, यतोऽन्तरकरणस्याऽऽवलिकायां शेषायामपशमिकसम्यक्त्वकालः पूर्णो भवति, तत आवलिकयाऽधिकोपशान्ताद्धाऽन्तरं भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy