________________
७४ ] उपशमनाकरणम्
[ गाथा २६ नन्वन्पबहुत्वाऽनुसारेणाऽन्तरकरणक्रियाकालतः प्रथमस्थितिः संख्यातगणा भवति, यतः प्रयमस्थितिबन्धाद्धाऽन्तरकरणक्रियाकालतः विशेषाधिका, ततः संख्यातगुण उपशमकस्य गुणसंक्रमकालः, ततः संख्यातगुणमुपशमकस्य गुणश्रेणिशिरः, ततः संख्यातगुणा प्रथमस्थितिरिति ।
तथा चाऽभिनवस्थितिबन्धकालतः किश्चिदधिका प्रथमस्थितिर्भवतीति मलयगिरिसूरीश्वराणामभिप्रायः। उक्तं च तैः कर्मप्रकृत्यादौ ग्रन्थे-"अन्तरकरणक्रियाकाल. श्चाऽन्तर्मुहूर्तप्रमाणः प्रथमस्थितेः किश्चिन्यूनोऽभिनवस्थितिबन्धाडया समः।" इत्युभयोः परस्परं विरोध उद्भवतीति चेटु ? न, वादिमृगमृगपतीनां श्रीमन्मलयगिरिसूरीश्वराणामक्षराणामयमर्थः कर्तव्यः । अन्तरकरण क्रियाकालोऽन्तमुहूर्तप्रमाणः प्रथमस्थितिकरणकालाच्च किश्चिन्यूनोऽभिनवस्थितिबन्धाद्धया समः । अन्यथा विरोधापत्तरिति वयं संभावयामहे । तथाहि-यद्यन्तरकरणक्रियाकालः प्रथमस्थितितः किश्चिन्यून उच्यते, तर्हि प्रथमस्थितिरभिनवबन्धकालेन तुल्यभूताऽन्तरकरणक्रियाकालता किश्चिदधिका वाच्या, अभिनवस्थितिबन्धकालाऽन्तरकरण क्रियाकालयोस्तुल्यत्वात् । अत्राऽन्तरकरणक्रियाकाले समाप्तेऽग्रे प्रथमस्थितेरावलिकाद्वयशेषे गणश्रेणिव्यवच्छिद्यत इत्युक्तम् । तत्र प्रथमस्थितिसत्कैकावलिकायां संख्येया अभिनवबन्धाद्धा भवन्ति, प्रत्येकस्थितिबन्धाद्धाया आवलिकायाः संख्येयभागप्रमाणत्वात् । स्थितिबन्धाद्धाया आवलिकासत्कसंख्येयभागमात्रत्वं स्थितिबन्धाद्धाप्ररूपणाऽवसरेप्राग विस्तरशो दर्शितमिति । पूर्वोक्तप्रकारेण प्रथमस्थितिरभिनवस्थितिबन्धकालतः केवलं किश्चिदधिकोच्यते, तर्हि संख्येया अभिनव स्थितिबन्धाद्धाः कथं भवेयुः ? तस्या (प्रथमस्थितेः) अ भनवस्थितिबन्धाद्धाद्वयादपि न्यूनत्वात् । अतः प्रथमस्थितिशब्दस्य प्रथमस्थितिकरणकाले लक्षणा कर्तव्या । .. न च शक्याथ परित्यज्य लक्ष्यार्थः कथं गृह्यते यथा “पिको रौति" इत्यादौ पिकशब्दस्य शक्यार्थ एव कोकिलात्मको गृह्यते, न लक्ष्यार्थ इति वाच्यम् , यतो यत्राऽन्वयाऽनुपत्तिस्तात्पर्यऽनुपपत्तिर्षा भवति । तत्र शक्यार्थ परित्यज्य लक्ष्यार्थ: स्वीक्रियते । उक्तं च "लक्षणाशक्यसम्बन्धस्तात्पर्य नुपपत्तितः" इति । यथाऽन्वयाऽनुपपत्तितः 'गङ्गायां घोषः" इत्यादौ गङ्गाप्रवाहरूपशक्याथ परित्यज्य गङ्गातीररूपलक्ष्यार्थो गृह्यते । तथैव तात्पर्यानुपपत्तितः “यष्टीः प्रवेशय" इत्यादौ यष्टिधरेषु लक्षणा, तथैवाऽत्र तात्पर्याऽनुपपत्तितः प्रथमस्थितिशब्दम्य प्रथमस्थितिकरणकाले लक्षणा कर्तव्या। नन्वत्र प्रथमस्थितिकरणकालेना. ऽन्तरकरणक्रियाकालस्तुल्यो भवितुमर्हति, न किञ्चिन्न्यूनः, यतोऽन्तकरणक्रिया प्रथमस्थितिकरणं च युगपदारभ्येते युगपच्च समाप्येते इति चेद् ? उच्यते, तत्समीचीनम् , किन्तु व्यवहारन येव मिथ्यात्वाऽभाववत्यन्तरकरणे कृते सत्येव प्रथमस्थितिरिति व्यपदिश्यत इति कृत्वाऽन्तरकरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org