________________
अल्पबहुत्वम् ] सम्यक्त्वाधिकारः
[ ७३ (९) उपशमकस्य यावद्गुणसङ्क्रमेण सम्यक्त्वमोहनीयं सम्यक्त्वमिथ्या. त्यमोहनीयं च पूरयति, स पूर्वतः संख्यातगुणः, गुणसंक्रमकालः पूर्वतः संख्यातगण इति यावत् ।
औपशमिकसम्यक्त्वस्य प्रथमसमयादारभ्याऽन्तमुहर्तपर्यन्तं मिथ्यात्वमोहनीयस्य गुणसङ्क्रमो भवति, गुणसक्रमसत्काऽन्तमुहर्तकालस्याऽनेकसहस्रस्थितिघाताद्धाप्रमाणत्वेन पूर्वतः संख्यातगुणः, यतो गुणसंक्रमकालेऽनेकसहस्राणि स्थितिघातादयो भवन्ति ।
(१०) तत उपशमकस्य प्रथमसमयसत्कगुणश्रेणिशिर. संख्यातगुणम् । अत्र गुणश्रेणिशीपं नामाऽन्तरकरणस्य यावति काले गुणश्रेणिरचना भवति, तावत्कालो गुणश्रेणिशिरो ज्ञातव्यम् । इदमुक्तंभवति-अन्नरकरणस्य प्रथमसमयादारभ्य गुणश्रेणिचरमनिक्षेपस्थानपर्यन्तमुपशमकस्य गुणश्रेणिशिर उच्यते, तच्चाऽत्र मिथ्यात्ववर्जशेषकर्मणां संभवति, यतोऽन्तरकरणक्रियाकाले पूर्ण सति यदा प्रथमसमय उपशामको भवति, तदा मिथ्यात्वमोहनीयस्य गुणश्रेणिरचनाऽन्तरकरणे न संभाव्यते । मिथ्यात्ववजशेषकर्मणां गुणश्रेणिरचनाऽन्तरकरणेऽपि भवति, यत उपशमकस्य प्रथमसमायादारभ्य गुणसङ्क्रमनिवर्तनसमयपर्यन्तं मिथ्यात्ववर्जशेषकर्मणां गुणश्रेणिः प्रवर्तते । गुणसंक्रमनिवर्तनकालीनगुणश्रेणिरचनाऽप्युपरितनाऽन्तमुहूर्तप्रमाणस्थितिषु भवतीत्यन्तरकरणप्रथमसमयादारभ्य गुणश्रेणिचरमनिक्षेपस्थानपर्यन्तमुपशमकगुणश्रेणिशिर उच्यते, तच्च पूर्वतः संख्यातगुणम् ।
(११) ततः प्रथमस्थितिः संख्यातगुणा ।
अनिवृत्तिकरणस्य संख्यातभागेऽवशिष्टेऽन्तरकरणक्रियाऽऽरभ्यते, एकया स्थितिबन्धाद्धया पूर्णायां तस्यामनिवृत्तिकरणस्य शेषकालः प्रथमस्थितिरुच्यते । 5 सा च पूर्वतः संख्यातगुणा । कथमेतदवसीयत इति चेद् ! उच्यते-यदाऽन्तरकरणक्रियासमाप्तिकालेऽन्तरकरणगतं तत्कालीनगुणश्रेणिसन्कं यं संख्येयभागं खण्डयति, ततः संख्यातगुणाऽवशिष्टगुणश्रेणिः विद्यते, एवं प्रथमस्थितेरपि तावत्वेन गुणश्रेणिसत्कखण्ड्यमानसंख्येयभागतः संख्येयगुणत्वं भवति, गुणश्रेणि सत्कखण्ड्यमानसंख्येयभाग उपशमकस्य गुणश्रेणिशिरश्च इत्युभयोस्तुल्यत्वसंभवात् , उपशमकस्य गुणश्रेणिशिरम्तः प्रथमस्थितिः संख्यातगुणा सिध्यति ।
卐 तथेत्रोक्तं जयधवलायामपि-सयलस्सगुणसेडिमायामस्स तक्कालं दीसमाणस्स संखेज्जदिमाग
जुत्तो जो अणियट्टिअद्धादो उवरिमो विसेसाहियणिक्खेवो तं सव्वमंतर?मागएदि ति मणियं होखि( १७२० )
अथवा पढमट्टिबीए संखेज्जदिमागमंतस्सेव गुणसेढिसोसवत्स मंतर दुगागाइवत्ता (१७२५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org