________________
७२ ] उपशमनाकरणम्
[ गाथा २६ विशेषहीनो विशेषहीनो भवति । तेन चरमाऽनुभागखण्डोत्कीर्णकालतः प्रथमाऽनुभागखण्डोत्कीर्णकालो विशेषाधिकः ।
(३-४) प्रथमस्थितेरावलिकामाने शेषे समाप्यमानो यश्चरमखण्डोत्कीर्णकालः स तथा तस्मिन् चरमस्थितिखण्डोत्कीर्णकाले स्थितिबन्धकाल इमो उभौ पूर्वत संख्यातगुणौ परस्परं च तुल्यौ ।
एकस्मिन् स्थितिघातेऽनेकसहस्राणि रसघाता भवन्ति, इति कृत्वा चरमरसघातकालत श्वरमस्थितिघातकालः संख्यातगुणो भवति । तथा चरमरसघातकालतः प्रथमरसघातकाल: केवलं विशेषाऽधिकः । अतः प्रथमरसघातकालतश्वरमस्थितिघातकालः संख्यातगुणः, स्थितिघातकालेन समकालीनः स्थितिबन्धकालस्तुल्यः, तेनाऽत्राऽपि चरमखण्डोत्कीर्णकालेन तत्कालीनस्थितिबन्धकालस्तुन्यः।
(५-६) ततोऽन्तरकरणस्य क्रियाकालः तस्मिन्नेवाऽन्तरकरणक्रियाकाल एव स्थितिवन्धकालश्च विशेषाऽधिको परस्परं च तुल्यौ, उपलक्षणत्वात् तत्कालीनस्थितिघातकालोऽपि पूर्वतो विशेषाऽधिकः परस्परं च तुल्यः, अन्तरकरण क्रियाकालो नूतनस्थितिबन्धश्च स्थितिघातश्च युगपदारभ्यन्ते, तथैकेन स्थितिबन्धाकालेनाऽन्तरकरण क्रियाकालः स्थितिघातकालश्च युगपद् निष्ठां यातः । तेनाऽन्तरकरणक्रियाकालेन तत्कालीनस्थितिबन्धकालो वा स्थितियातकालो वा तुल्यो भवति, यतस्तत्स्थितिघाततोऽनेकस्थितिघातेषु व्यतिक्रान्तेष्वनिवृ. त्तिकरणस्य चरमम्थितिघातः प्राप्यते तथोत्तरोत्तरस्थितिघातकालस्य हीनत्वेन चरमस्थितिघातकालो विशेषहीनो भवति, अर्थाच्चरमस्थितिघातकालतोऽन्तकरणक्रियाकालीनस्थिति। घातकालो विशेषाहीनो भवति, अतः पूर्वतोऽन्तरकरण क्रियाकालस्तन्कालीनस्थितिघातकालतत्कालीनश्चस्थितिबन्धकालो विशेषाऽधिकाः परस्परं च तुल्या भवन्ति ।
(७-८) नतोऽपूर्वकरणे प्रथमस्थितिघातोत्कीर्णाडा स्थितिवन्धाऽद्धा च विशेषाऽधिके परस्पर च तुल्ये भवतः :
अपूर्वकरणस्य प्रथमस्थितिघातादारभ्य पूर्वपूर्वतः किश्चिद्धीयमानैः सहस्र रुत्तरोत्तर स्थिति घातकालैरन्तरकरण क्रियाकालस्तत्कालीनश्च स्थितिबन्धकालः स्थितिघातकालो वा प्राप्यते, अतोऽन्तरकरण क्रियाकालतस्तत्कालीनस्थितिबन्धकालतश्चाऽपूर्वकरणस्य प्रथमस्थितिघातकालो विशेपाधिकः, तथा स्थितिघातकालेन स्थितिबन्धकालस्तुल्य इति कृत्वाऽपूर्वकरणस्य प्रथमस्थितिघातकाल स्थितिबन्धकालश्च परस्परं तुल्यौ भरतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org