________________
गुणसंक्रमो विध्यातसंक्रमश्च ) अनिवृत्तिकरणाधिकारः
यद्वा यः संक्रमोऽन्तरकरणस्थितेनौपशमिकसम्यक्त्वलक्षणप्रशस्तगुणाऽन्वितेन क्रियत इति स गुणसंक्रमः । तथा चोक्तं पंचसंग्रहे--
गुणसंकमेण एसो होइ संकमो सम्ममीसेसु ।
अतरकरणम्मि हिओ कुणइ जओ सपसत्य गुणा ॥१॥ ननूपशमसम्यक्त्वप्राप्तितो य आरब्धो गुणसङ्क्रमः, स गुणसङ्क्रमोऽन्तमुहर्तपर्यन्तमेव प्रवर्तते । न चाऽयमुपशमसम्यक्त्वकालपर्यन्तं कुतो न प्रवर्ततेऽन्तमुहूर्ते व्यतिक्रान्त एव कुतो न निवर्तत इति वाच्यम् , यतोऽत्राऽयं नियमः प्रतिभाति, करणकालात्पूर्वाऽवस्थायां तथा यथाप्रवृत्तादिषु करणेषु या प्रतिसमयमनन्तगुणवृद्धथा विशोधिः, सा प्रथमसम्यक्त्वादिगुणप्राप्तिप्रथमसमयादारभ्याऽन्तमुहूर्तपर्यन्तं प्रवर्तते. तत ऊर्ध्व प्रतिसमयमनन्तगुणवृद्धया विशोधिने प्रवर्तत इति । तस्मादत्राऽप्युपशमसम्यक्त्वप्राप्तिसमयादारभ्याऽन्तमुहृतं यावदनन्तगुणवृद्धया विशुद्धयां वर्तमानो जन्तुर्भवतीति संभाव्यतेऽत एव सम्यक्त्वप्राप्तिसमयादन्तम हुनपर्यन्तं गुणसङ्क्रमो भवति, तत उर्ध्व गुणसझमो निवर्तते । तथा चाऽन्तमु हूतात्परतः प्रवर्धमानविशुद्धरसंभवाद् गुणसङ्क्रमेण सह मिथ्यात्ववर्जशेषकर्मणां स्थितिघातादयोऽपि निवर्तन्ते । गुणसङ्क्रमसम्बन्धिन्यन्तमुहूर्ते व्यतिक्रान्ते गुणसङ्क्रमो निवर्तते । ततश्च विध्यातसङ्क्रमः प्रवर्तते । विध्यातसङ्क्रमेण सम्यक्त्वमोहनीये मिथ्यात्वसम्यक्त्वमिथ्यात्वपुजौ मिश्रमोहनीये च मिथ्यात्वपुञ्ज सङ्क्रमयति ।
ननु किं नाम विध्यातसङ्कम इति चेद् ? उच्यते- विध्यातसक्रमोऽपि गुणप्रत्ययतो भवप्रत्ययतो वाऽबध्यमानानां प्रकृतीनां भवति, किन्त्वनेन सङ्क्रमेण म्तोकान्येव दलिकानि परप्रकृतिषु सङ्क्रम्यन्ते । प्रथमसमये विध्यातसङ्क्रमेण यावत्कर्मदलिकं परप्रकृतिषु सड्क्रम्यते, तेन मानेनाऽवशिष्टदलिकस्याऽपहारे क्रियमाणे क्षेत्रतोऽगुलाऽसंख्येयतमभागगताऽऽकाशप्रदेशेम्पहारो भवति, कालतचाऽसंख्येयामिरुत्सपिण्यवसर्पिणिभिरपहारो भवति ।
उक्तं च पञ्चसद्महे सङ्कमाऽधिकारे--
जाण न बंधो जायह आसज्ज गुणं भवं व पगईणं । विज्झाओ ताणंगुलअसंखभागेण अण्णत्य ॥९॥
इदन्तु विध्यातसङ्क्रमस्य मन्दतां प्रदर्शयितुमुक्तम् । वस्तुतस्तु शेषसर्वदलिकं कदाऽपि विध्यातसक्रमेणाऽन्यत्र न संक्रम्यत इति ध्येयम् ।
गुणसङ्क्रमकालमभिधाय संप्रति गुणसंकमक्रमनिवर्तनकाले ये पदार्था अपूर्वकरणे स्थितिघातादय आरब्धाः, तेषां निवृत्तिकालमभिधित्सुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org