________________
उपशमनाकरणम्
[ गाथा २० अत्र गुणसङ्क्रमः कः पदार्थ इति चेद् ? अत्र वयं ब्रूमः-अत्र गुणशब्दो न क्षमादिगुणानां वाचका, न च रूपादिगुणानां वाचकः, अपि विह ''भामा सत्यभामा" इति न्यायेन गुणशब्दस्याऽसंख्येयगुणे वृत्तितिव्या, यद्वा पारिभाषिको गुणशब्दोऽयं योऽसंख्येयगुणे वतते, यत्र पूर्वपूर्वत उत्तरोत्तरसमयेऽसंख्येयगुणकारेण प्रक्रिया भवति, तत्र बहुलमस्मिन् शास्त्र गुणशब्दो व्यवहियते । यथा गुणोपशमना, यत्र पूर्व पूर्व समयादुत्तरोत्तरममयेऽसख्येयगुणकारेण दलान्युपशम्यन्ते । एव गुणश्रेणिपि-यत्र सम्यक्त्व चारित्रादिप्रशस्तगुणान्वितेन जीवेन पूर्वपूर्वसमयादुत्तरोत्तरसमयेऽसंख्येयगुणकारेन श्रेणिर्दलरचना क्रियते । तथैव गुणसङ्क्रमः पूर्वपूर्वसमयत उत्तरोत्तरसमयेऽसंख्येयगुणनया प्रवर्तमानः संक्रमः तेन सम्यक्त्वलाभप्रथमसमये यावन्ति दलानि सड़क्रमयति, ततो द्वितीयसमयेऽसंख्येयगुणानि दलानि सङ्क्रमयति, ततस्तृतीयसमयेऽसंख्येयगुणानि सङ्क्रमयति, एतेनाऽसंख्येयगुणकारेण क्रमेण दलानि यावत्संक्रमयति, स गुणसङ्क्रमपदार्थ इति भावः ।।
गुणसङ्क्रमस्य सामान्यलक्षणम्- अपूर्वकरणप्रभतिगुणस्थानकेऽथवाऽपूर्वकरणादारभ्याबध्यमानानामशुभप्रकृतीनां कर्मदलिकानां प्रतिममयं गुणेनाऽसंख्येयगुणकारेण बध्यमानासु स्वजातीयासु प्रकृतिषु यः प्रक्षेपः स गुणसंक्रमः । अपवादतो मिथ्यात्वमोहनीयमिश्रमोहनीययोरसंख्येयगुणनया त्वबध्यमानसजातीये यथायोगं सम्यक्त्वमोहनीये मिश्रमोहनीये वाऽपि यः प्रक्षेपः स गुणसंक्रम उच्यते । उक्तश्च पञ्चसग्रहे संक्रमाऽधिकारे--
असुभाण पएसग्गं बज्झंतीसु असंखगुणणाए ।
सेढीए अपुव्वाई छुभंति गुणसंकमो एसो ॥१॥ स च गुण मक्रमोऽनन्तानुबन्धि चतुष्कमिथ्यात्वमिश्रमोहनीयरूपषट्प्रकृतिवर्जानां शेषाऽबध्यमानाऽशुभप्रकृतीनामपूर्वकरणप्रभतिगुणस्थानके भवति । विसंयोजनाकालेऽनन्तानुबन्धिचतुष्करूपाऽशुभप्रकृतीनां तथा दर्शनत्रिकक्षपणाकाले मिथ्यात्वमिश्रमोहनीययोरशुभप्रकृत्योर्गुण. सङ्क्रमोऽपूर्वकरणादारभ्य भवति । प्रथमोपशमिकसम्यक्त्वाऽवसरे तु मिथ्यात्वमिश्रपुञ्जयोगुणसंक्रमः सम्यक्त्वप्राप्तिप्रथमममयादारभ्य वाऽन्तमुहर्त पर्यन्तं भवति नार्वाक । ननु मिथ्यात्वम्य गुणसंक्रमः सम्यक्त्वमोहनीये सम्यक्त्वप्राप्तेरवांगपूर्वकरणादारभ्य कुतो न भवतीति चेद् ? उच्यते-मिथ्यात्वस्य धबन्धित्वेन प्रथमगुणस्थानकेऽवश्यं बध्यमानत्वानिवृत्तिकरणस्य चरमसमयपर्यन्तमवध्यमानत्वाऽभावात् पतद्ग्रहरूपमम्यक्त्वमोहनीयस्याभावाच्च गुणसङ्क्रमो न भवति । गुणसङ्क्रमो ह्यबध्यमानानां प्रकृतीनां भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org