________________
त्रिपुञ्जकरणम् ] अनिवृत्तिकरणाधिकारः
[ ५६ अभ्यन्तरे सम्यमिथ्यात्वं सम्यक्त्वे न सङक्रम्यते । उक्तं च कर्मप्रकृतिौँ "अट्ठावीससंतकमियस्स सम्मत्तलंभातो आवलियाए परतो वट्टमाणस्स सम्मत्त पडिग्गत्तेति फेडिए सत्तावीसा संकमति, तस्सेव आवलिया अभंतरतो वट्टमाणस्स कमो सम्मामिच्छत्तस्स संकमो त्थिा त्ति छब्धिसा संकमंति। ' अत्र प्रथमसम्यक्त्वप्राप्तित आवलिकापयन्तं सम्यमिथ्यात्वस्य (मिश्रस्य) सङ्क्रमो निषिध्यते, न त्वौपशमिकसम्यक्त्वाऽभिमुखस्य मिथ्यात्वचरमसमयतः, न वा सम्यक्त्वप्राप्तितः समयोनाऽऽवलिकापर्यन्तमिति हेतोरन्तग्करणप्रथमसमय औपशमिकसम्यग्दृष्टिस्त्रीन पुजान् करोति । उक्तं चाऽन्यत्राऽपि। तथा चाऽत्र शतकचूर्णिः पदमसम्मत्त उपाडितो तिन्नि करणाणि फरेओ उवसमसम्मत्तपडिवन्नो मिच्छत्तदलियं तिपुजी करेह सुहं मीसं असुहं चेत्ति । तथैव कर्मस्तवे. ऽप्युक्तम् - इहाऽनन्तराऽभिहितविधिनौपशमिकसम्यक्त्वेनौषधिविशेषकल्पेन मदन. कोद्रवस्थानीयं मिथ्यात्वमोहनोयं कर्म शोधयित्वा त्रिधा करोति तद्यथा-शुद्धमर्धविशुद्धमशद्धं चेति।
तथा चोक्तं कषायप्राभृतचूर्णावपि "चरिमसमयिमिच्छादिट्ठी से काले उवसंतदसणमोहणीओ ताधे चेव तिपिण कम्मंसा अप्पादिदा"
तत्र शुद्धं सम्यक्त्वमोहनीयम् , तच्च देशघाति देशघातिरससमन्वितत्वात्तस्याऽनुभाग एकस्थानको मन्दद्विस्थानको वा । अर्धविशुद्धं मिश्रमोहनीयम् , तच्च सर्वघाति, तस्य सर्व घातिरससमन्वितत्वान् तस्याऽनुभागो मध्यमद्विस्थानकः, अशुद्धं मिथ्यात्वमोहनीयं तच्च सर्वघातिरससमन्वितत्वात्तस्यानुभागः मध्यमद्विस्थानकादग्रेतनो यावत् त्रिचतुःस्थानको तदेव सूत्रकारोऽभिधत्ते-"सम्मिसं" इत्यादि, मिश्रेण सहितं मिथ्यात्वं सर्वघाति भवति । मिथ्यात्वसत्काऽनुभागस्य विधा करणं त्रिपुञ्जकरणमित्युच्यते, पञ्चसमहादिकाराणामभिप्रायेण पुनस्त्रिपुजा मिथ्यात्वचरमोदये वर्तमानेन सम्यक्त्वाऽभिमुखेन मिथ्यादृष्टिना क्रियते । उक्तं च पञ्चसहकारैः--- उपरिमठिा अणभागं तं च तिहा कुणइ चरिममिच्छुदए ।
देसघाईणं सम्म इयरेण मिच्छमीसाई ॥१॥ मलटीका--उपरिमस्थितेर्दितीयस्थितेः कर्मदलं रसभेदेन त्रिधा करोति शद्धि. मधिकृत्य; शुद्धं किञ्चिच्छुडमिति । तच्च प्रथमस्थितिचरमसमये मिथ्यात्वमनुभव. मानो जीवो देशघातिरसेन सम्यक्त्वपुजं सर्वघातिरसेन द्विस्थानकेन सम्यग्मिथ्यात्वपुजं (दि) त्रिचतुस्थानरसेन सर्वघातिना मिथ्यात्वपुजं प्रारम्भयतीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org