________________
५६ ]
उपशमना करणम्
[ गाथा १६-१७
तानि तिष्ठेयुरिति युक्तिभिः संगच्छत इत्यस्माभिः सभाव्यते, न कुत्रचिदेतादृगुल्लेखो दृश्यते ।
मिथ्यात्वस्थितिबन्धस्तु प्रथमस्थितेश्वरमसमये निवर्तते, मिथ्यात्वस्य ध्रुवबन्धित्वादुदयबन्धित्वाच्च । षट्खण्डागमस्य धवलाटीकायां स्थितिघानो रसघातो वा कुत्र निवर्तते, तन दर्शितम्, तथाऽपि प्रथमग्थितेश्वरमसमयपर्यन्तं स्थितिघातो रसघातच भवत इति मतं विद्यते धवलाकाराणामिति प्रतिभाति यतो धवलाया मल्पबहुत्वाऽधिकारे चरमस्थितिबन्धाद्रा चरमस्थितीघानाडया तुल्या इत्युक्तमस्ति । तथा तांष्टीकाकाराननुसृत्य लब्धिसारग्रन्थ कारेणाऽप्युक्तम् "दर्शनमोहस्य प्रथमस्थितिसमाप्तिसमकालभावी (संपूर्ण भवतीत्यर्थः) शेषकर्मणां गुणसङक्रमचरमसमयसमकालभावि गनुभागकण्डकं तदन्त्याऽनुभागकण्डकमीत्युच्यते " इति । चरमरसघातः प्रथमस्थितिसमाप्तिसमकाले पूर्णा भवतीत्यर्थः । किञ्चपयुक्तवक्तव्यतायां स्वीक्रियमाणायां प्रथमस्थितेश्वरमसमयं मिथ्यात्वसत्कस्थितिघातयव्यवच्छेदे कषायप्राभूतचूर्णिकारस्य विरोधस्स्यात्, यदुक्तं चूर्णिकारेण - "आवलियाए सेसाए मिच्छत्तस्स घादो णत्थि ।"
न च चुर्णिकारस्याऽल्पबहुत्वविषयसूत्रे विरोध आपद्यत इति वाच्यम्, चुर्णिकारस्य सूत्रमेवभूतं नास्ति, "चरम स्थितिघाताडा चरमस्थितिबन्धाडा दोषि तुल्ला ।” किन्त्वित्थं सूत्रमस्ति चरमडीदीखण्डक्कीरणकालो तम्हि चैव ठिदिबंधकालो च दोवि तुल्ला " (संखेज्जगुणा) इति । यश्वरम स्थितिखण्डोत्कीर्ण कालस्तस्मिश्चग्मस्थितिखण्डोत्कीर्णकाले प्रवर्तमानो यः स्थितिबन्धस्तस्य कालः, तयोरुभयोस्तुल्यत्वमित्यर्थः । अत्र स्थितिबन्धकालस्य तुल्यत्वं दर्शितम्, न तु चरमस्थितिघातकालस्य, अत एव चरमस्थितिघातकालस्य तत्कालीनस्थितिबन्धकालेन तुल्यत्वे सत्यु भयोव्यवच्छिन्नकालभेदे न कश्चिद्विरोधो विद्यते । उभयव्यवच्छिन्नकालभेदादेव " आवलियाए सेसाए मच्छिदस्स घादो णत्थि " इति नृणिसूत्रमपि सङ्गच्छते ।
मिथ्यात्वस्य स्थितिघातरसघातयोर्निवृत्तयोः केवलेन शुद्धेनोदयेनाऽऽवलिका प्रमाणां प्रथमस्थितिमनुभवत आवलिकायाश्चरमसमये मिथ्यात्वस्य बन्धोदयौ युगपन्निवर्तेते । ततोऽनन्तरसमय उपशान्ताद्धां प्रविशति । उपशान्ताद्धां प्रविष्टस्य सतो जन्तोः प्रथमसमय एव मोक्षबीजमौपशमिकं सम्यक्त्वमुपजायते उक्तञ्च पञ्चसङ्ग्रहे - "आवलीमेतं उदयेण वेइङ ठाइ उवसमद्धाए । उवसमियं तत्थ भवे सम्मतं मोक्खबीयं जं ॥ | १ ||" इति । इयमुपशान्ताद्वा परिनिष्ठिताऽन्तरकरणैकदेशस्तै नोपशान्ताद्धा प्रवेशसमय एवोपशमिकं सम्यक्त्वमवाप्नोति, मिथ्या त्वदलिक वेदनाऽभावात् । अमुमेव पदार्थ सूत्रकृद् विस्तरशो व्याचिकीषु राह(पश्यन्तु पाठका यन्त्रकम् ..४)
Jain Education International
ין
For Private & Personal Use Only
www.jainelibrary.org