________________
अन्तरकरणम ] पनिवृत्तिकरणाधिकारः
[१५ यदाऽऽवलिकादये शेष आगालो विच्छिद्यते, तदा मिथ्यात्वस्य गुणश्रेणिरपि व्यवच्छिन्ना भवति ।
नन्वन्तरकरणक्रियायां पूर्णायां गुणश्रेणेर्दलिकप्रक्षेपः कुत्र भवति ।
यतः पूर्वोक्तप्रकारेणाऽपूर्णकरणाऽनिवृत्तिकरणाद्धायाः किश्चिदधिके काले गुणश्रेणिदलरचना भवेत्तर्हि मिथ्यात्वाऽभाववत्यन्नरकरणेऽपि दलिकनिक्षेपः स्यात् , तेनाऽनिवृत्तिकरणे परि. समाप्तेऽन्तरकरणं प्रविशन मिथ्यात्वस्य दलान्यनुभवेत् । मिथ्यात्वं चाऽनुभवन्नौपशमिकसम्यक्व नाऽश्नुयादिति चेद, उच्यते- अन्तरकरणं कुर्वानन्तरकरणगतगुणश्रेणिसंख्येयतमभागस्य दलान्यप्युत्किरति, अपुर्णकरणाऽनिवृत्तिकरणाद्धाया उपरितनकिश्चिदधिककालप्रमाणगुण श्रेणिनिक्षेप संकृच्याऽन्तरकरणक्रियाऽनन्त गुणश्रेणिरचनामनिवृत्तिकरणाद्धापर्यन्तं करोति, ततो गुणश्रेणिर्दलिकनिक्षेपोऽनिवृत्तिकरणादापर्यन्तमेव भवति, नाऽग्र इति युक्तिप्रयुक्तिभिनयं समावयामहे । तत्वं तु केवलिनो विदन्ति ।
यदा प्रथमस्थितेरावलि कायां शेषायामुदीरणा व्यवच्छिद्यते, तदा मिथ्यात्वस्य स्थितिघातावपि निवर्तते, आयुर्वर्जशेषकर्मणां स्थितिघातरसघातौ गुणश्रेणिश्च भवन्ति । एकविंशतितमगाथायां मूलकारः स्वयमेव वक्ष्यते। 'ठिहरसघाओ' इत्यादि । तथा चाऽऽह चूर्णिकार:
मिच्छत्तस्स पढमहिति जाव एगाव लिसेसा ताव । ठितिघाती रसघाती य अस्थि परउ नथि ।। तथैव पशसङ्ग्रहे--
"मिच्छत्तस्स इगि गावलिसेसाए पदमाए" । उक्तश्न कषायप्राभूतचूर्णिकारैरपि-आवलियाए सेसाए मिच्छत्तस्स घादो नत्यि। प्रथमस्थिता एकस्यामावलिकायां शेषायां स्थितिघातो निवर्तते, तस्य कारणमस्माभिरिदं संभाव्यते, उपशमाद्धाप्रवेशाऽवसरे समयोनाऽऽवलिकाद्वयमात्रे बद्धान्येव दलिकान्यनुपशमितानि तिष्ठन्ति, यदि च चरमसमयपर्यन्तं स्थितिघातो मन्येत, तहनिवृत्तिकरणम्य समयोन चरमाऽऽवलिकायां घातितस्थितेर्दलिकान्युपशान्ताद्धां प्रविष्टस्याऽनुपमितानि तिष्ठेयुः । किं कारणमिति चेद, उच्यते-यथा बन्धाऽऽवलिकायामतीतायामभिनवान्ये कसमयबद्धदलिकान्युपशमयितुमेकावलिका व्यतिक्रान्ता भवति, तथैव स्थितिघाततः प्राप्तानि दलिकान्युपशयितुमेकाऽऽवलिका व्यतिक्रान्ता भवति, तथैव स्थितिघाततः प्राप्तानि दलिकान्युपशमयितुमेकाऽऽवलिका गच्छेदिति कृत्वा समयोनाऽऽचलिकया पातितस्थितेदलान्यप्यनिवृत्तिकरणचरमसमयेऽनुपर्शाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org