________________
उपशमनाकरणम्
[ गाथा १६-१७ स्थितेः सकाशाद् यदुदीरणाप्रयोगेण दलिकानि समाकृष्योदयसमये प्रक्षिप्यन्ते, मोदीरणाऽपि पूर्वसूरिभिर्विशेषप्रतिपयर्थमागाल इत्युच्यते तत ऊर्जामुदीरणव प्रथमस्थितितः प्रवर्तते, साऽपि प्रथमस्थितेरावलिकाप्रमाणस्थितौ शेषायां शान्ता=व्यवच्छिका भवति, नतः केवलेन शुद्धेनोदयेनाऽऽवलिकामात्र प्रथमस्थितिमनुभवति । उक्तं च पञ्चसमहे- "इगदुग आवलि सेसाइ णत्यि पदमा उदीरणागालो । पढमठिइए उदीरण पीयाओ ए आगाला ॥१॥इत्येवं कषायप्राभूतचूर्णाषप्युक्तम्-"पदमहिदीओ वि विदियहिदियो वि आगाल परिआगालो ताव, जाव आपलिअपरिआवलियाओ सेसाओ" इति, अत्राऽऽवलिकाशब्देनोदयावलिका प्राधा, प्रत्यावलिकाशब्देन चोदयावलिकोपरितनाऽऽवलिकाप्रमाणस्थितिज्ञेया । तेन चूर्णिसूत्रस्याऽयं भावार्थ:-प्रथमस्थितित उद्वन्यमानस्थितिः प्रत्यागालः, द्वितीयस्थितितोऽपर्व त्यमानस्थितिरागालः । तौ तावद् वक्तव्यो यावद्दयावलिकोपरितना बलिका शेषा भवति । प्रथमस्थितेराबलिकाद्विकं शेष भवतीत्यर्थः । + आगालो नाम द्वितीयस्थितेर्दलानामपवर्तनया प्रथमस्थितौ प्रक्षेपणम् , प्रत्यागालो नाम प्रथमस्थितेर्दलानामुद्वर्तनया द्वितीयस्थितौ निक्षेपणमित्यर्थः ।।
ननु प्रथमस्थितो दयावलिकाशेषायां प्रत्यागालो व्यवच्छिद्यते, कथमेतदवसीयत इति चेद् ? उच्यते-यदा मिथ्यात्वस्य प्रत्यागालः प्रवर्तते तदा मिथ्यात्वम्य प्रथमस्थितितो दलान्यूद्वर्तनया द्वितीयस्थिती निक्षिप्यन्ते । उद्वर्तनाऽऽवलिकागतं कर्म मकलकरणाऽयोग्यमिति कृत्वाऽऽवलिकापर्यन्तं तद्दलिकं तदवस्थं तिष्ठनि । ततः परं तदुपशमयितु प्रक्रमते, एकसमयेनोवर्तितदलिकमावलिकाकालेन सर्वथोपशम्यते, एकसमयबद्धनूतनदलिकवतु । तथा च सति यदि प्रत्यागालोऽनिवृत्तिकरणस्य चरमसमयपर्यन्तं प्रवर्तते, तर्हि यथाऽनिवृत्तिकरणस्य चरमसमये समयोनाऽऽवलिकाद्विकबद्धदलिकमनुपशान्तं तिष्ठति तथैव ममयोनाऽऽलिकाद्विकेनोद्वतितमपि दलं द्वितीयस्थितावनुपशान्तं तिष्ठेत । न चोद्वर्तितमपि दलमनिवृत्तिकरणचरमसमयेऽनुपशान्तं तिष्ठतु विरोधाऽभावादिति वाच्यम् , अनिवृत्तिकरणचरमममय समयोनाऽऽलिकाद्विकेन बद्धाऽभिनवदलिकमनुपशान्तं तिष्ठनीत्येव संभवादिति वयं अमः ।
उक्तञ्च जयधवलायाम्-"तत्थ प्रावलिया त्ति वृत्तं उदयावलिया घेत्तव्वा पडिमावलिया त्ति एदेण वि उदयावलियादा उरिम विदियावलिया गेहयमवा" ।
+ उक्तञ्च जयधवलायाम् प्रागालनमागालो विदियट्टिदिपदेसाणे पढमाठदीए प्रोकटणाक्सेणागमणमिति वृत्त होइ । प्रत्यागलन प्रत्यागाल-पढमछिदिपदेसाण विदियटिदीए उक्कडुणावसेण गमणमिदं भणिदं होइ । तदा पढविदिठिदियपदेसाणमुक्कड्डणोकड्डणावसेण परोप्परं विसयसकमो प्रागासपडिप्रागालो त्ति घेतव्यो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org