SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्रस्तरकरणम् ] निवृत्तिकरणाधिकारः [ ५३ अन्तरकरणे कृते सति सम्यक्त्वाऽभिमुख उपशामक उच्यते । उक्तश्च कर्मप्रकृतिचूणी• "एवं अंतरकरणकयं भवति ततो पभिति उवसामगो लम्भत्ति ॥" तथा चोक्तं कषायप्राभतचूर्णी-"दो अतरं कीरमाणं कयं तदोपहडि उपसामगो नि भण्णइ" इति । यद्यप्पस्य कश्चिदपि विशेषः कर्मप्रकृतिवृत्तिकारन्यैर्षा नाऽभिहितः, तथाऽपि इदमस्माभिः संभाव्यते-यथाऽनन्तानुबन्ध्युपशमनाऽधिकारेऽन्तरकरणे कृते मति तदनन्तरसमयेऽनन्तानुबन्धिनो द्वितीयस्थितिगतदलिकमुपशमयितुमारभते,तत्राऽयं क्रमः... प्रथमममये म्नीकं दलिकं द्वितीय समयेऽसंख्येय गुणम , एवं यावदन्तमुहर्तकालम् , अन्तमुहूर्तकालेन च सर्वथापशमयति, तथैवाऽत्राऽपि तेन क्रमेणोपशमयति, अतः कमप्रकृतावुक्तस्योपशामकशब्दस्य व्युत्पन्यथ उपशमयतीत्युपशामक इत्युपपद्यते ।। इदमत्र हदयम्- अन्तरकरणे कृते तदनन्तरसमयादारभ्य प्रतिसमयमसंख्येयगुणं द्वितीयस्थितिगतं दलमुपशमयति, एवमनिवृत्तिकरणम्य चरमसमयं यावद् द्वितीयस्थितिगतसर्वदलमुपशमयति, नवरं समयन्यनाऽऽवलिकद्विकन बद्धानि दलिकानि नोपशमयति, यतो यस्मिन्समये यानि कान्यपि दलिकानि वध्यन्ते. तत्समयादारभ्याऽऽवलिकापर्यन्तं तेषु न किमपि करणं प्रवतते, बन्धाऽऽवलिकायाः सकलकरणाऽयोग्यत्वात् । ततो द्वितीयाऽऽवलिकायाः प्रथमसमयादारभ्योपशमयितुमारभते, ततः प्रभृत्यावालिकायां पूर्णायां प्रथमसमये बद्धवानि दलानि सर्वाण्युपशमितानि भवन्ति । यन एकममये बद्धानि दलिकान्युपशमयितुमावलिकामात्रः कालो गच्छति । एवं प्रथमाऽऽवलिकायाः द्वितीयममये बद्धानि दलान्यावलिकाकालेन सर्वथोपशम्यन्ते, तेनाऽत्रापि मिथ्यात्वसत्कप्रथमस्थितेर्द्विचरमाऽऽवलिकायाः प्रथमसमय बद्धानि दलिकानि बन्धाऽऽवलिका सकलकरणाऽयोग्येति कृत्वाऽऽवलिकापर्यन्तमुपशमयितुंनाऽऽरभते, ततश्वरमाऽऽवलिकायाश्चरमसमये द्विचरमाऽऽधलिकायाः प्रथमसमये बद्ध नि सर्वाणि दलान्युपशम्यन्ते, परन्तु समयन्यूनद्विचरमाबलिकायां चरमावलिकायां च बद्धानि दलान्युपशमितानि तिष्ठन्ति तानि दलान्यसंख्येयगुण नया नावना कालेनोपशान्ताद्धायामुपशमयति, तत उपशान्ताद्धायाः समयोनाऽऽवलिकाद्वये व्यतिकान्ते सति सर्वदलमुपशम्यते न किदिनुपशान्तमुपतिष्ठते । उपशान्तं नाम अन्तमुहुर्तकालायोदयोदीरणाकरणाऽयोग्य करणम् , तेनाऽग्रे वक्ष्यमाणत्रिपुञ्जकरणं न विरुध्यते । 'आवलिदुगेकसेसे" इत्यादि, तथा मिथ्यात्वमोहनीयस्योदयोदीरणाभ्यां च ताव. प्रथमस्थितिमनुभवति, यावदावलिकाहयप्रमाणा प्रथमस्थितिश्शेषा तिष्ठति, प्रथमस्थितौ चाऽऽवलिकाद्व यशेषायामागालः शान्तो व्यवच्छिन्नो भवति । आगालो नाम मिथ्यात्वस्य द्वितीय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy