SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ५२ ] | गाथा १६-१७ मुहूर्त माणस्थिति दलिकान्युत्कीर्य तत्र मिथ्यात्वदलिकानामभावं करोति, अन्तरकरणक्रियाकालश्चाऽन्तमुहूर्त प्रमाणोऽभिनवस्थितिबन्धाद्ध वाऽमिनवस्थितिवाताद्धया वा मम इत्य अन्तर्मुहूर्तकालेनाऽन्तरकरणं भवति । अर्थाद् यदाऽभिनवस्थितिबन्धाद्धा पूर्णा भवति, तदाऽन्तरकरणमपि समापयति । इदमुक्तं भवति -- अभिनव स्थितिघाताद्वायां व्यतिक्रान्तायामन्तरकरणक्रियाऽपि परिमाप्ता भवति, उदयसमयादारभ्याऽन्तमुहूर्तप्रमाणाया मिध्यात्वस्थि तेरुपरितनाऽन्तर्मुहूतस्थितिर्मिथ्यात्वदलिकाभाववती भवतीत्यर्थः । उद्यममयादरम्यान्तमुहूर्तप्रमाणा प्रथमस्थितिस्तथाऽनन्तरकरणस्योपरितनस्थितिद्वितीयस्थितिरितिव्यपदिश्यते । उपशमनाकरणम् पूर्वोक्तगुणश्रेणिरचनाऽपूर्वकरणादनिवृत्तिकरणकालात् किश्चिदधिककालप्रमाणाभवति । अन्तरकरणे क्रियमाणे मिथ्यात्वस्य गुणयेणे: संख्येयतमं भागमन्तरकरणदलिकेन सहोत्किरति नाशयतीत्यर्थः । शेषाश्च गुणश्रेणिसंख्येयभागाः प्रथमस्थित्याश्रितास्तिष्ठन्ति । कर्मप्रकृतिचूण तु "अंतरकरेमाणे अनियट्टिगुणसेढी निक्ग्वेवरस अग्गग्गातो (अ) संखेज्जतिभागं ग्वण्डेति” त्ति, असंख्येयतमभागं खण्डयतीत्युक्तम् । तदशुद्ध प्रतिभाति । 1 उत्कीर्यमाणं दलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति । तथाहि यदुताऽन्तरकरणस्थितेर्मध्याद् दलिकं गृहीत्वाऽधस्तात्प्रथमस्थितावुपरि च द्वितीयस्थितौ निक्षिपत्ति | एवं प्रतिसमयं तावत्प्रतिश्चिपति यावदन्तरकरणइलिकं सकलमप्युत्कीर्यते, अन्तर्मुहूर्तप्रमाणकालेनाऽन्तरकरणसत्कसकलदलान्युत्कीर्यन्ते । उक्तं च पञ्चसङग्रहे- 'अन्तरकरणरस विही घेत्तु घेत्तु ठिईड मज्झाओ । दलिय पदमठिईए विद्युत्भह तहा उवरिमाए ||" अन्तरकरण - क्रियायां परिपूर्णायामपि स्थितिवातादयश्चत्वारः पदार्थाः प्रवर्तन्ते । 5 न चान्तर्मुहूर्तप्रमाणस्थितेरन्तरकरणम्, स्थितिघातश्च जघन्यतोऽपि पल्योपम संख्येय भागप्रमाणस्थितेर्भवति, कथमुमयोरुत्कीर्ण कालसम उच्यत इति वाच्यम्, तथा स्वभावात् । न चान्तरकरणसत्कस्थिते न्यूनत्वेन तत्र दलिकान्यल्पानि सन्ति, स्थितिघातस्य तु स्थितेराधिवयेन दलिकानि बहूनि ततः कथमुभयोर्दलिकोत्कोर्णकालः समः, प्रन्तरकरणस्याऽल्पदलिक वत्त्वेन दलिकोत्कीर्णकालोऽल्पो वक्तव्य इति वाच्यम्, यतो दलिकाऽपेक्ष योत्कीर्णकालो विचार्यते तहि न कश्चिद् भेदः प्रतिभाति, यतः स्थितिघातः स्थितिसत्कर्मणोऽग्रिमभागतः क्रियते, अन्तरकरणं तूदयसमयादारभ्याऽन्त मुहूर्तप्रमाणस्थिते रूपरितनान्तमुहूर्त प्रमाणस्थितेः क्रियते, घात्यमानाऽग्रिमस्थितौ प्रत्येक स्थितिस्थानगतवलिकाऽपेक्षयान्तर करणे प्रत्येक स्थितिस्थानकस्यटलिकान्य संख्येयगुणानि भवन्ति यतोऽन्तरकर णतोऽसंख्यातद्विगुणहानिस्थानेषु व्यतिक्रान्तेषु घात्यमानस्थितिस्थानकानि प्राप्यन्ते श्रतः स्थितिघाटे स्थितिस्थानकान्यंतर करणसत्क स्थितिस्थानेभ्याऽसंख्येयगुणानि, अन्तरकरणे च स्थितित्र तस्य प्रत्येक स्थितिस्थानगत दलिकाऽपेक्षया प्रत्येक स्थितिस्थानकस्य दलि काव्य संख्ये यगुणानि भवन्तीति दलिकाऽपेक्षया न कश्विद्विशेषः प्रतिमाति । ' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy