________________
अध्यवसावविशोषिः ] पनिवृत्तिकरणाधिकारः
[५१ भिनवस्थितिबन्धं तथाऽभिनवरसघातं चाऽऽरभते, अन्तर्मुहूर्ते न्यतिक्रान्ते पुनद्वितीयमभिनयस्थितिघातं द्वितीयं स्थितिवन्धममिनवरसघातं चाऽऽरमते, अत्र रसघातो य आरभ्यते, स न द्वितीयः, किन्त्वनेकसहस्रतमो रसघातो भवति, स्थितिघातकाले स्थितिबन्धकाले वाऽनेकसहस्त्ररसघाताना व्यतिक्रान्तत्वात् । एवमपूर्वकरणे बहुसहस्राणि स्थितिघातादयो भवन्ति, तथैवाऽनि. वृत्तिकरणेऽपि स्थितिघातादयो भवन्ति ।
अथाऽध्यवसायानां विशोधिराविश्चिकीर्ष राह-"तुल्ले काले समा तओ नामं" तुल्ये समाने काले, यतः समा सर्वेषामपि प्रविष्टानां विशोधिर्भवति, न विषमा. ततो नाम मा अनिवृत्ति, अन्यर्थम् । तद्यथा-न वर्तते निवृत्तिः प्रविष्टानां तुल्यकालाना जीवानामध्यरसायानां मिथस्तियक्षस्थानपतिता वैषम्यलक्षणा व्यावृत्तिर्यस्मिन् करणे तदनिवृत्ति, अनिवृत्ति च तत्करणं चेत्यनिवृत्तिकरणम् , इति व्युत्पत्यर्थो ग्राह्यः । इदमुक्तं भवति-अनिवृत्तिकरणस्य प्रथमसमये वर्तन्त, ये च वृत्ताः, ये च वर्तिष्यन्ते, तेषां समा विशोधिः किन्तु प्रथमसमय-- भाविविशोध्यपेक्षया त्वनन्तगुणा, एवमनिवृत्तिकरणस्य चरमसमयं यावद् वाच्यम् । इत्थं त्रिकालगोचरसर्वजीवानां प्रतिसमयमेकमेवाऽध्यवसायस्थानम् । नवरं प्रथमसमयाऽध्यवमायस्थानाऽपेक्षया द्वितीयसमयस्याऽध्यवसायस्थानमनन्तगुणवृद्धम् , अतोऽनिवृत्तिकरणे यावन्तसमयास्तावन्त्यध्यवसायस्थानानि पूर्वपूर्वस्मादनन्तगुणवृद्ध्या विशुद्धानि । एतानि च मुक्तावलीसंस्थानेन स्थापयितव्यानि, उक्तं च पधसङग्रहे- “अनियटिकरणमओ मुत्तावलीसंडियं कुणई।" इति । उक्तविशुद्धयां प्रवर्धमानोऽनिवृत्तिकरणाद्धायाः संख्येयेषु मागेषु गतेअन्तरकरणस्य विशिष्टां क्रियां करोतीत्या'चार्योऽभिव्यनक्ति
संखिज्जइमे सेसे भिन्नमुहुत्त श्रहो मुच्चा ॥१६॥ किंचूणमुहुत्तसमं ठिबन्धद्धाश्र अंतरं किच्चा । श्रावलिदुगेक्कसेसे श्रागालउदीरणा समिया ॥१७॥
संख्येयतमे शेषे भिन्नमुत्तमयो मुक्त्वा ॥१५॥ किचिदून मुहूर्तसमं स्थितिबन्धाद्धयाऽन्तरं कृत्वा ।
प्रावलिकाद्विककशेष प्रागालोदीरणे भान्ते ॥१७॥ इति पदसंस्कार: "संखेज्ज" इत्यादि, अनिवृत्तिकरणाद्धायाः संख्येयेषु भागेषु व्यतिक्रान्तेषु सत्स्वेकस्मिँश्च संख्येयतमे भागेऽवतिष्ठमाने भूयोऽभिनवस्थितिघातादयः पदार्था आरभ्यन्ते तदा मिथ्यात्वस्याऽन्तरकरणं करोति, कतु मारभत इत्यर्थः । अन्तरकरणं करोति नामोदयक्षणादुपरि मिथ्या स्वस्थितिमन्तमुहूर्तमानामतिक्रम्योपरितनी च मिथ्यात्वस्थितिं विष्कम्भयित्वा मध्यगत अन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org