SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ५० ] उपशमनाकरणम् दलिकनिक्षेपे न कश्चिद् दोषः । चरमसमये च कण्डकप्रमाणस्थितिसत्कर्मणोन्यूनत्व' भवतीति घात्यमानस्थितौ दलिकनिक्षेपो न भवति । तत्त्वं तु सर्गज्ञा विदन्ति । ननूत्कीर्यमाणानां दलानां निक्षेप उदयसमयादारभ्याऽन्तर्मुहूर्त पर्यन्तमसंख्ये यगुणकारेणोक्तः, अन्तर्मुहूर्तात्परेषु स्थानेषु निक्षेपो भवति न वा ? यदि भवति तर्हि को निक्षेपक्रमः ? इति चेत्, उच्यते गुणश्रेणिनिरूपणाऽवसर उदयसमयादारभ्याऽन्तमुहूर्तपर्यन्तमसंख्येयगुणकारेण निक्षेप उक्तोऽन्यत्र निक्षेपो नोतः, यतस्तत्र गुणणेरेवाधिकारस्तथाऽपि स्थितिघातप्ररूपणाऽवसरे या स्थितिरधो न खण्डयति, तत्र तद्द्दलिकं प्रक्षिपतीति पूज्ययशोविजय रु पाध्याय भट्टारकै रुक्तम् एतेन ज्ञाप्यते गुणश्रेणिरचनारूपाऽन्तमुहूर्तादन्यत्राऽपि दलिकनिक्षेपो भवति । अर्थात् गुणश्रेणिरचनाया उपरितनस्थितिष्वपि निक्षेपो भवति । निक्षेपक्रमस्त्वेवम् । गुणश्रेणिशिरस्तोऽनन्तरस्थितिस्थाने पूर्वतोऽसंख्येयगुणहीनस्ततोऽनन्तरस्थितिस्थाने स्थाने विशेषहीनक्रमेण तावदभिधातव्यं यावदतीत्थापनाऽप्राप्ता भवति । विशेषस्तु क्षायिकसम्यक्त्व प्राप्तौ वक्ष्यामः । (पश्यन्तु यन्त्रकम्...... ..३) " उपयुक्तैः स्थितिघातादीनां सहस्रं रपूर्वकरणसमयाननुभवन्त्रनिवृत्तिकरणं प्रविशतीत्यनुवृत्तिकरणस्य वक्तव्यतां व्याचिकीषु राह- [ गाथा १६ अनियम्मि वि एवं तुल्ले काले समा तो नामं । श्रनिवृतावप्येवं तुल्ये काले समा ततो नाम । इति ॥ पयसंस्कार : संप्रत्यनिवृत्तिकरण स्थितिघातादयश्चत्वारः पदार्था अध्यवसायेभ्यो विशोधिभ्यश्चार्वाकूप्ररूप्यन्ते प्रत्यासत्तेः । अयं भावः पूर्वस्यामेव गाथायामपूर्वकरणे स्थितिघातादीनां स्वरूपं कथितम् तेन ते पदार्था किमनिवृत्तिकरणेऽपि भवन्ति, उत न ? इत्याशङ्कापरिहारार्थमाह-"अनियट्टिम्म वि एवं" त्ति यथाऽपूर्वकरणप्रथमसमयादारभ्य स्थितिघातादयो युगपत् प्रवर्तमाना उक्ताः, एवमनिवृत्तिकरणेऽपि वाच्याः, तथाहि - अपूर्वकरणे प्रविशन्नभिनव स्थितिघातम 5 टिप्पणी तथा चोक्तं षट्खण्डागमस्य धवलाटीकायामपि “एवमसंखेज्जगुणणाए सेढोए दिव्व जाब गुणसेढी चरिमसमझो ति तदो उवरिमाणतराए ठिदिए प्रसखेज्जगुणहीनं दव्वे बेदि तदुवरिमठ्ठिदिए विसेसहीणं देदि एवं विसेस होणं विसेसहीणं चैत्र पदेसग्गं निरंतरं देदि जाब प्रप्यप्पलो उक्कीरिदट्ठिदिमावलियकालेण अपत्तो त्ति । " ... Jain Education International + टिप्पणम्....प्रत्र 'सहस्र' शब्दःसंख्यावाचकः' प्रादशभ्यः सङ्ख्या सङ्ख्ये ये बर्तते न सङ्ख्यान इति न्यायेन विशत्यादिसङ्ख्या तु संख्याने च प्रवर्तते यथा - एकोनविंशतिघंटा घटानामेकोनविशतिः । For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy