________________
अपवर्तना ] अपूर्वकरणाधिकारः
[ ४६ वाघादे ।" इति वदन्ति । भावार्थः पुनरयम्--व्याघातभाव्यपवर्तनायामपि द्विचरमसमयपर्यन्तमेकावलिकाऽतीत्थापना, अर्थास्थितिकण्डक उत्कीर्यमाणे यावस्थितिघाताद्धारूपाऽन्तमुहूर्तकालस्य द्विचरमसमयं दलिकनिक्षेपोऽतीत्थापनाऽऽवलिकावर्जसर्वस्थितौ भवति, तस्मादुत्कीर्यमाणे खण्डेऽपि दलिकनिक्षेपो भवतीत्यर्थः ।
इदमुक्तं भवति । यस्मात्स्थितिस्थातनाद् दलिकोत्कीर्ण भवति, ततोऽवस्तनाऽऽवलिकावर्जसर्वस्थितिस्थानकेषु दलिकानि प्रक्षिप्यन्ते । तथाहि--अपर्वत्यमानसत्तागतचरमस्थितिस्थानकस्य दलिकान्यतीत्थापनारूपामावलिकां विमुच्य घात्यमानस्थितिस्थानकवन्येषु च स्थितिस्थानकेषु निक्षिप्यन्ते । ततः समयाधिकाऽऽवलिकामात्रेषु स्थितिस्थानक षु न निक्षिप्यन्ते । व्याघातभाव्यपवर्तनायां स्थितिघाताद्धारूपाऽन्तमुहूर्तकालस्य चरमसमये तु कण्डकप्रमाणायाः स्थितेन्यूनत्वं भवतीति कृत्वा चरमसमये घात्यमानखण्डस्य चरमस्थितिस्थानकस्य दलिकानि समयोनकण्डकप्रमाणस्थितिरूपाऽतीत्थापनामतिक्रम्याऽधस्तनाऽघात्य मानस्थितिस्थानकेषु शिप्यन्ते । तथा घात्यमानखण्डसत्कद्विचरमस्थितिस्थानकस्य दलिकानि द्विसमयोनकडकप्रमाणस्थितिरूपाऽतीत्थापनामतिक्रम्यादधस्तनाऽघात्यमानस्थितिस्थानकेषु क्षिप्यन्ते । तथा घात्यमान खण्डमत्कद्विचरमस्थितिस्थानकम्य दलिकानि द्विसमयोनकण्डकप्रमाण स्थितिरूपाऽतीत्थापनामतिक्रम्यऽधम्तनऽघात्यमानस्थितिस्थानकेषु क्षिप्यन्ते । एवं पूर्वपूर्वाऽपेक्षयोत्तरोत्तरऽधस्तनस्थितेदलिकानामतीत्थापना न्यना भवति, यावदात्यमानकण्डकम्याऽधस्तनसमयाऽधिकप्रथमाऽऽवलिकायाश्चरमसमयस्य दलिकान्यावलिकाप्रमाणामतीत्थापनां विमुच्याऽ. धम्तनस्थितिम्थान केषु निमिप्यन्ते ।
तनोऽधस्तनसर्वस्थितिस्थानदलान्यावलिकारूपामतीत्थापनां विमुच्याऽधस्तनस्थितिस्थानकेषु प्रक्षिप्यन्त इति सिद्धम् , स्थितिघाताद्धारूपाऽन्तमुहर्तकालस्य द्विचरमसमयपर्यन्तं घात्य मानस्थितिम्थानकेष्वपि दलिकनिक्षेपो भवति, इति कषायप्राभृतर्णिकृद्महः श्रीमन्मलयगिरिपादानां च द्वेऽपि परस्परं मताऽन्तरे ज्ञातव्ये । यद्वा याः स्थितीरधो न खण्डयति, तत्र तद्दलिकं प्रक्षिपतीत्यनेनेदं ज्ञातव्यम् । स्थितिघाताद्धारूपाऽन्तमहूर्तकालम्य चरमसमय एक स्थितेन्यूनत्वं भवतीति तत्र चरमसमयस्य विवक्षा क्रियते, यतो द्विचरमसमयपर्यन्तं कण्डकप्रमाणस्थितावुत्कीयमाणायामपि सत्तागतस्थितेन्यूनत्यं न भवतीति कृत्वा घात्यमानस्थिती
टिप्पणी कषायप्राभृतस्य जयधवलाटोकायामनुभागसक्रमाऽधिकारेऽप्युक्तम-उक्कस्ताऽणुभागखंडए प्राघाइदे दुचरिमटिमकालेसु प्रतमुत्तमंतिसु सम्वत्थ जहण्णा इच्छावणो चेव पुग्वुत्तपरि. लामा होह तक्काले वाघादामावादो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org