________________
४८ ] उपशमनाकरणम
[ गाथा १५ चरमसमये प्रवर्तमानव्य घाताभाव्यपवर्तनायाः कारणम् । तत्र कारणे=निर्व्याघातभाव्यपवर्तनायां कार्यस्य-व्याघातभाव्यपवर्तनारूपस्थितिघातस्योपचारो भवतीति स्थितिघाताद्धारूपाऽन्तमुहूर्तकालस्य प्रथमसमयात्प्रभृति द्विचरमसमयपर्यन्तं निर्णाघातभाव्यपवर्तनायां सत्यामपि स्थितिघातत्वेन व्यपदेशो भवति ।
ननु घात्यमानस्थितेर्दलिकान्यावलिकालक्षणामतीत्थापना विमुच्य सर्वस्थितिस्थानेषु क्षिप्यन्ते, उत तत्र कश्चिद्विशेषोऽस्ति ? उच्यते-कर्मप्रकृतिचूर्णौ तु घात्यमानस्थितेर्दलिकानि कुत्र प्रक्षिप्यन्ते, इति न निर्दिष्टं किन्तु श्रीमन्मलयगिरिसूरीश्वरायविशारदैश्च न्यायाम्भोधिश्रीमद्यशोविजयोपाध्यायैस्तथा सप्ततिकाचूर्णिकारैनिंदिष्ट मेतद्यस्थितिकण्डकमुत्कीर्यते तस्य दलानि याऽधस्तनस्थितिं न खण्डयिष्यति तस्यां प्रक्षिपति । तथा चाऽऽहुः श्रीमन्मलयगिरिसूरीश्वरा:-"जघन्येन पुनः पल्योपमसंख्येयभागमानं स्थितिकण्हकमुत्किरति, उत्कीर्य या स्थितिरघो न खण्डयिष्यति, ता तद्दलिकं प्रक्षिपति" ।
तथैव श्रीमदुपाध्यायवृत्ती "स्थितिसत्कर्मणोऽग्रिमभागादृत्कर्षत उदधिपृथकत्वं प्रभूतसागरोपमप्रमाणम् , जघन्येन च गल्योपमसंख्येयभागमात्र स्थिति। कण्डकमुस्किरति खण्डयतीत्यर्थः । उत्कीय च या स्थितिरधो न खण्यति, तत्र तददलिकं प्रक्षिपति । तथा चोक्तं सप्ततिकाचूर्णा अनन्तानुबध्युपशमनाधिकारे 'तत्य ठितिघाओ नाम ठिदिसंतकम्मस्स अग्गगाओ उसकोसेणं सागरोपमसयपुहत्तं जहणणं पलिओवमस्स (अ) संखेइज्जभागे ठिति लिदित्त तं दलियं हेढो जाओ हिओ न खंडेति तस्य छुभंति " इति ।
तथा शतकनामकपश्चमकर्मग्रन्यवृत्तौ (नव्यशतकवृत्तौ) श्रीमद्भट्टारकैदेवेन्द्रसूरीश्वरैरप्युक्तम "तत्र स्थितिघातो नाम "स्थितिसाकर्मणोऽग्रिमभागावृत्कर्षतः प्रभृतसागरोपमशतपृथक्त्वमात्र जघन्यतः पन्योपमसख्येयभागमात्रं स्थिति खण्ड खण्डयति तदलिकं पाऽवस्तायां स्थिति न खण्डयति तत्र प्रक्षिपति।"इति ।
एतानि सर्वाण्यक्षराणि ज्ञापयनि-यदुत्कीर्यमाणानि दलान्य धात्य मानस्थिती निक्षिप्यन्ते, किन्तु पात्यमानस्थितीन प्रक्षिप्यन्ते । कषायपाभृतष्णिकारास्तु-'वाघादेण भात्थावणा एक्का जेणापलिया अदिरिता होई। त जहा द्विदिघादकरतेणं बंडयभागाइदं तत्थ जं पढमसमए उक्कीरदिपदेसाग्गं तस्स पदेसागस्स आवलियाए अइच्छावणा । एवं जाव दुचरिमसमयं अणुक्किण्णं खंड यति । चरिमसमए जा खंडयस्स अग्गहिदि तिरसे अइच्छावणा खंत्यसमयूणं । एसा उक्कसिया अइच्छावणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org