________________
सुबोधा व्याख्या
घाडिय त्ति मित्त जइरि ति भाष्यपदं यदृच्छा सेत्यर्थः । कायणुवाइ ति भाष्यपद पृथिव्यादीनां यत् कायं शरीरं तस्यानुपातेन विनाशेन वधकस्य बन्धो भवति, पृथिव्यादीनां द्वीन्द्रियादीनां च बध्यानां यानीन्द्रियाणि तदनुपातेन च वीसइमे उद्दे सगे भणियं ति प्रभूततरेप्यापत षण्मासतया कृत्वेत्यर्थः । अववायमंतरेणेत्यादि अपवादचिन्ताव्यतिरेकेणैव यतना प्रयतनाश्च उक्तः । कहए न य सावए लजित्ति भाष्यपदं - कथके श्रावके च श्रोतरि कथकश्रोतृभ्यां लज्जा न विधेया इत्युक्तं भवति । वप्यरूवगं इमं ति वप्र केदारो जलभृतस्तेन रूप्यते उपमीयत इति वप्ररूपणं, भाविताः संजाता गुणाः सत्यादयो यस्य ततः सस्यवद्भूमौ संजातगुणे सति को यो वास्तस्मिन्त्रीवेति अकप्पियाणं ति अयोग्यानां संसारश्चतूरूपो गति चतुष्कभेदात् पंचप्रकारश्च एकेन्द्रियद्वीन्द्रियत्रीन्द्रियादिभेदात् । षट्प्रकारश्च पृथिव्यपप्रभृतिभिर्भेदात् इति सम्भाव्यते। ( संभाव्यन् ) घोर त्ति क्वचित् पाठो भाष्ये क्वचिच्च दीहे ति ततो द्वितीयपाठमप्यर्थतो व्याख्यातवान्, दीहं कालमित्यनेन, अनवदग्रोऽपरिमितः ।।
इदानी चूणिकारो यदर्थ मया चूणिः कृता इत्येतदाविष्करोति -
जो गाहेत्यादि गाथा शब्देन भाष्यगाथा निबद्धत्वादभिधीयते, ततो गाथा च सूत्रं च तयोरर्थ इति विग्रहः । पागडो त्ति प्राकृतः प्रगटो वा पदार्थो वस्तुभावो यत्र स, तथा परिभाष्यते: र्थोऽनयेति परिभाषा चूणिरुच्यते ।
अधुना चूर्णिकारः स्वनामकथनार्थ गाथायुग्ममाह -
अतिथिं चेत्यादि वर्गा इह ग्र,क,च,ट,त,प,य,श, वर्गा इति वचनात् स्वरादयो हकारान्ता ग्राह्याः । तदिह प्रथम गाथया जिणदास इत्येवंरूपं नामाभिहितं, द्वितीयगाथया तदेव विशेषयितु. माह - जिणदास महत्तर इति तेन रचिता चूणिरियम् ।
सम्यग् तयाऽऽम्नांयाभावादत्रोक्तं यदुत्सूत्रम् .....(?) । मतिमान्द्याद्वा किंचित्तच्छोद्धय श्रुतधरैः कृपाकलितैः । श्रीशालिभद्रसूरीणां, शिष्यैः श्रीचन्द्रसूरिभिः । विंशकोद्देशके व्याख्या, दृब्धा स्वपरहेतवे ।।१।। वेदाश्व रुद्रयुक्ते, विक्रमसंवत्सरे तु मृगशीर्षे । माघसितद्वादश्यां समथितेयं रवो वारे ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org