________________
मार्गणामहाधिकारे गतिप्ररूपणाधिकारः ॥६॥
अनंतरमहत्परमेश्वरप्रणामरूपमंगलपुरःसरं मार्गणामहाधिकार प्ररूपणनिरूपणप्रतिज्ञेयं माडिदपं।
धम्मगुणमग्गणाहयमोहारिवलं जिणं णमंसित्ता।
मग्गणमहाहियारं विविहहियारं भणिस्सामो ॥१४०॥ धर्मगुणमार्गणाहतमोहारिबलं जिनं नत्वा । मार्गणामहाधिकारं विविधाधिकार भणिष्यामः।
रत्नत्रयात्मको धर्मो धनुस्तस्योपकारका ज्ञानादिधर्मा गुणा ज्याः। तदाश्रयाश्चतुर्दश मार्गणास्त एव मार्गणा बाणास्तैराहतानि मोहारेर्मोहनीयनाम्नः कर्मणः शत्रोर्बलानि ज्ञानावरणादिकर्मप्रकृतयो येनासौ धर्मगुणमार्गणाहतमोहारिबलस्तं जिनमर्हभट्टारकं नमंसित्वा गत्यादि- १० विविधाधिकारांचितं मार्गणा महाधिकारं भणिष्यामः। इत्यनेन मध्यममंगलकरणेन विनाशितविघ्नमलो नेमिचंद्रसैद्धांतचक्रवर्ती मार्गणधिकारं वक्तुं प्रारभते।
जित्वा घातीनि सर्वाणि लब्ध्वा लब्धिगुणव्रजम् ।
प्रकाशितं हितं येन पद्माभं तं भजेऽनघम् ।। ६ ॥ अथाहत्परमेश्वरप्रणामरूपमंग मार्गणामहाधिकारप्ररूपणप्रतिज्ञां करोति
रत्नत्रयात्मको धर्मो धनुः, तदुपकारका ज्ञानादिधर्माः गुणाः ज्याः, तदाश्रयाश्चतुर्दशमार्गणाः ता एव बाणाः तैराहतानि मोहारेः मोहनीयकर्मशत्रोः, बलानि ज्ञानावरणादिकर्मप्रकृतयः, येन असौ धर्मगुणमार्गणाहतमोहारिबलः, तं जिन-अर्हद्भट्टारकं, नमस्कृत्वा गत्यादिविविधाकाराञ्चितं मार्गणामहाधिकारं भणिष्यामः । इत्यनेन मंगलकरणेन विनाशितविघ्नमलो नेमिचन्द्रसैद्धतिचक्रवर्ती मार्गणाधिकारं वक्तं प्रारभते-॥ १४०॥
जिन्होंने सब घातिकोको जीतकर गुणोंके समूहको प्राप्त किया और हितका प्रकाशन २० किया,उन पापरहित पद्मप्रभ स्वामीको मैं भजता हूँ। ___आगे अर्हन्तदेवको प्रणामरूप मंगलपूर्वक मार्गणामहाधिकारको कहनेकी प्रतिज्ञा करते हैं
जिन्होंने रत्नत्रयात्मक धर्मरूप धनुष, उसके उपकारक ज्ञानादि धर्मरूप गुण अर्थात् धनुषकी डोर और उनके आश्रयभूत चौदह मार्गणारूपी बाणोंके द्वारा मोहनीय कर्मशत्रुकी २५ ज्ञानावरण आदि कर्म प्रकृतिरूप सेनाको मार डाला है,उन जिन भगवानको नमस्कार करके गति आदि विविध अधिकारोंसे युक्त मार्गणामहाधिकारको कहेंगे। इस मंगलके द्वारा विघ्नरूपी मलको नष्ट करके नेमिचन्द्र सिद्धान्तचक्रवर्ती मार्गणा महाधिकारको कहना प्रारम्भ करते हैं ॥१४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org