________________
लोकायतिकमतम्
तत्त्वान्तरम्, तदप्यसम्बद्धमेव, यत आह सूत्रकारः - "जेलबुद्बुदवज्जीवाः ' [बृह० सू०], तथा “चैतन्यविशिष्टः कायः पुरुषः " [बृह० सू०] । ननु च पुरुषार्थः कश्चित् तत्त्वान्तरं भविष्यति । तन्निवृत्त्यर्थमाह-'प्रवृत्तिनिवृत्तिसाध्या प्रीतिः पुरुषार्थ: " [ बृह० सू०] स च “काम एव" [बृह० सू०], नान्यो मोक्षादिः । ननु चान्य एव कश्चिद् बुद्ध्याधारः पुरुषो भविष्यति । दृष्टहान्यदृष्टकल्पनासम्भवान्नान्यः। तस्मात् स्थितमेतत्- ' चत्वार्येव तत्त्वानि' ।
( अथ प्रमाणम् । तस्य सामान्यलक्षणम् - अनधिगतार्थपरिच्छित्तिः प्रमाणम् । उपायो वा सन्निकर्षेन्द्रियार्थादि । " सन्निहिततदर्थे यथार्थविज्ञानं प्रत्यक्षम्” [ बृह० सू०] । प्रत्यक्षस्येदं लक्षणम् । तन्मते “प्रत्यक्षमेवैकं प्रमाणम्" [बृह० सू०] । ननु चोक्तम्-“असन्निहितार्थमनुमानम्" [बृह० सू०] । तच्च परमतानुसारेण न स्वमतापेक्षयेति स्थितमिति लोकायतानां संक्षेपतः प्रमाणप्रमेयस्वरूपम् )
* इति लोकायतराद्धान्तः समाप्तः ।
4
सर्वसिद्धान्तप्रवेशकः समाप्तः ।
नैयायिक-वैशेषिक- जैनन - साङ्ख्य - बौद्ध-मीमांसक-लोकायतिकमतानि सङ्क्षेपतः समाप्तानि ।
२१
१. धर्मसं० वृ० पृ० २७ A । षड्द० बृ० ॥ २. शास्त्रवा० स्वो० पृ० ५ B | षड्द० बृ० ॥ ३. " साध्या वृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्था सा मता तेषां धर्मः कामात् परो न हि ॥८६॥ " - षड्द० ॥ ४. " तत्त्वसंख्या न युज्यते चत्वार्येव तत्त्वानि इति । " - शास्त्रवा० स्वो० पृ० ८ A । " चत्वार्येव पृथिव्यादीनि तत्त्वानि' इति तत्त्वनियमसंख्याव्याघातप्रसङ्गः ।" - धर्मसं० वृ० पृ० ३७ B ॥ ५. यदि सन्निहितोर्थः यथा विज्ञानं A ॥ ६. प्रत्यक्षम् B मध्ये नास्ति ॥ ७. " प्रत्यक्षमेवैकं प्रमाणम्' इति वचनात् " - धर्मसं० वृ० पृ० ६५ B 1 " प्रत्यक्षमेवैकं प्रमाणं नान्यत्' इति वचनात् " - धर्मसं० वृ० पृ० ३७ B - ६३ A ॥ ८. चोक्तं परार्थमनुमानम् A ॥ ९ स्वरूपं समाप्तमिति B ॥ १२. ★ ★ एतच्चिह्नान्तर्गतः पाठः B मध्ये नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org