________________
वैशेषिकदर्शनम् वेगाख्यः संस्कारो मूर्तद्रव्येष्वेव, आकाशगुणः शब्द इति । गुणत्वयोगाच्च गुणा इति । तथा चापान्तरालसामान्यानि- रूपत्वयोगाद् रूपम्, रसत्वादियोगाद् रसादयः । इति गुणपदार्थः । ___ अथ कर्मपदार्थ:-"उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि" [वै० सू० २।१७] । कर्मत्वयोगात् कर्म । गमनग्रहणाच्च भ्रमण-स्यन्दन-नमनोन्नमनाद्यवरोधः । इति कर्मपदार्थः ।
“सामान्यं द्विविधम्-परमपरं च" [प्र० भा० पृ० १६४] । तत्र परं सत्ता द्रव्य-गुण-कर्मसु 'सत् सत्' इत्यनुवृत्तिप्रत्ययकारणत्वात् सामान्यमेव । यत उक्तम्-"सदिति यतो द्रव्य-गुण-कर्मसु सा सत्ता" [वै० सू० १।१७] । तथाऽपरं द्रव्यत्व-गुणत्व-कर्मत्वादि । तत्र द्रव्यत्वं द्रव्येष्वेव । गुणत्वं गुणेष्वेव । कर्मत्वं कर्मस्वेव । इति सामान्यपदार्थः॥
"नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः" [प्र० भा० पृ० ४] । नित्यद्रव्याणि च चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि च । ते चात्यन्तव्यावृत्तिबुद्धिहेतुत्वाद् विशेषा एव । इति विशेषपदार्थः ॥
१. गुण A ॥ २. तथा अन्तराल B || ३. "धवरोधनम् A | "द्यवि रोध: B ॥ तुलना-“अथ विशेषसंज्ञया किमर्थं गमनग्रहणं कृतमिति, न, भ्रमणाधवरोधार्थत्वात् । उत्क्षेपणादिशब्दैरनवरुद्धानां भ्रमण-पतन-स्यन्दनादीनामवरोधार्थं गमनग्रहणं कृतमिति ।"-प्र० भा० पृ १५३ । "अनवरुद्धानाम्असंगृहीतानाम्"-प्र० भा० व्योमवती पृ० ६६१ ।। ४. च B नास्ति ॥ ५. धनुगतप्र' B। “सा चाऽनुवृत्तेर्हेतुत्वात् सामान्यमेव"-प्र० भा० पृ० ४ ॥ ६. अथा' B ॥ ७. चतुर्धा A || ८. च B नास्ति ॥ ९. चांत्यत्वव्या' B॥ १०. त्तिप्रत्ययहे' AI "ते च खलु अत्यन्तव्यावृत्तिबुद्धिहेतुत्वाद् विशेषा एव"प्र० भा० (व्योमवतीसमेत) पृ० ५५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org