________________
वैशेषिकदर्शनम् नैमित्तिक-द्रवत्व-वेगैरेकादशभिर्गुणैर्गुणवत् । तत्र रूपं शुक्लं भास्वरं च, स्पर्श उष्ण एवेति ॥
"वायुत्वाभिसम्बन्धाद् वायुः' [प्र० भा० पृ० १६] इति । स च अनुष्णाशीतस्पर्श-सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वाऽपरत्व-वेगैर्नवभिर्गुणैर्गुणवान् धृति-कम्पादिलिङ्गः शब्दलिङ्गो गन्धादिवियुक्तोऽनुष्णाशीतस्पर्शलिङ्गश्चेति ॥ । ___ 'आकाशम्' इति पारिभाषिकी संज्ञा, एकत्वात् तस्य । सङ्ख्यापरिमाण-पृथक्त्व-संयोग-विभाग-शब्दैः षड्भिर्गुणैर्गुणवत् शब्दलिङ्गं चेति ॥
"कालः परापरव्यतिकर-योगपद्या-ऽयोगपद्य-चिर-क्षिप्रप्रत्ययलिङ्गः" [प्र० भा० पृ० २६] । स सङ्ख्या-परिमाण-पृथक्त्वसंयोग-विभागैः पञ्चभिर्गुणैर्गुणवान् ॥
"इत इदम्' इति यतस्तद् दिशो लिङ्गम्' [वै० सू० २।२।१२] । तद्यथा-इदमस्तात् पूर्वेण इदमुत्तरेणेति । सङ्ख्या -परिमाण-पृथक्त्वसंयोग-विभागैः पञ्चभिर्गुणैर्गुणवती, संज्ञा च पारिभाषिकी चेति ॥
"आत्मत्वाभिसम्बन्धादात्मा" [प्र० भा०, पृ० ३०] । स च चतुर्दशभिर्गुणैर्गुणवान् । बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्नलिङ्ग
१. अधृति A B। तुलना-"विषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतः स्पर्शशब्द-धृति-कम्पलिङ्गः तिर्यग्गमनस्वभावो मेघादिप्रेरणा-धारणादिसमर्थः ।"-प्र० भा० पृ. १८ ॥ २. गन्धादियुक्त: B | "क्षितावेव गन्धः"-प्र० भा० पृ० ११ ॥ ३.. स्पर्शश्चेति B ॥ ४. "आकाश-काल-दिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा भवन्ति-आकाश: कालो दिगिति ।"-प्र० भा० पृ० २३।। ५. यौगपद्यचिर B || ६. प्रत्ययः सङ्ख्या A । तुलना-"काल; परापरव्यतिकर-यौगपद्या-ऽयौगपद्य-चिर-क्षिप्रप्रत्ययलिङ्गः ।"-प्र० भा० पृ० २६ ॥ ७. परि B॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org