SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४६१ जैनधर्म और तान्त्रिक साधना घोरगुणयुता ब्रह्मचारिणः ऋद्धिशालिनः। सर्वोपद्रवनाशाय, तान् मुनीन् संस्तवीम्यहं ।।२४।। येषां संस्पर्शनान् सर्वे, रोगा नश्यंति देहिनां । आमर्षोषधियुक्तांस्तान् वंदे सर्वार्तिहानये ।।२५।। येषां क्ष्वेलमलाद्याः स्युः, रोगापनयने क्षमाः । संयतांस्तान् प्रवंदेहं, श्वेलौशधियुतान् गुरून्।।२६।। येषां स्वेदरजोलग्नाः, मला रोगान् नुदंति तान् । वंदे जल्लौषधिप्राप्तान् भवव्याधिविहानये ।।२७ ।। येषां उच्चारमूत्राद्याः, सर्वरोगापहारिणः । विपुषौषधियुक्तांस्तान्, वंदे सर्वार्तिशांतये ।।२८ ।। ये सर्वौषधिसंप्राप्ताः, सर्वजीवोपकारिणः । सर्वव्याधिविनाशाय, तेभ्यो नित्यं नमो नमः ।।२६ ।। मुहूर्तमात्रकालेन, द्वादशांगश्रुतं मुदा। चिंतयंति नमाम्येतान्, मनोबलयुतानृषीन् ।।३०।। मुहूर्तमात्रकालेन, द्वादशांगं पठति ये। उच्चैःस्वरैर्न खिद्यते, तान् वचोबलिनः स्तुवे ।।३१।। तपोमाहात्म्यतः लोकं, समुद्धर्तुं क्षमाश्च ये। कायशक्तियुतान् नौमि, कायबलिमुनीश्वरान् । ।३२ ।। करपात्रगतं येषां, विषं दुग्धं भवेत् सदा। क्षीरवत्वचनं चापि, तान् क्षीरस्रविषाः स्तुवे ।।३३।। येषां तपःप्रभावेण, नीरसं करपात्रगं। घृतं जायेत तत्सर्वं, तान् सर्पिःस्रविण: स्तुवे।।३४।। येषां हस्तगताहारं, जायतें मधुरं तथा। वाचोऽपि यांति माधुर्य, तान् मधुस्रविणः स्तुवे ।।३५।। करपात्रगतं येषा-माहारममृतं भवेत् । पीयूषं वचनं चापि, तान् सुधास्रविणः स्तुवे ।।३६ ।। येषामाहारमन्वन्न-मक्षीणं तद्दिनं तथा। अक्षीणा वसतिभूयात्, तान् क्षीणर्द्धिगान् स्तुवे।।३७ ।। वर्धमानगुणैयुक्तान्, वर्धमानजिनान् स्तुवे। ऋद्धिसिद्धिसमेतान् तान्, ऋद्धिसिद्धिप्रवृद्धये।।३८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy