________________
४६० जैनाचार्यों द्वारा विरचित ता० स्तोत्र ऋजुमतिधरान् वंदे, विपुलमतिसंयुतान् । मनःपर्ययबोधर्द्धि-भूषितांश्च स्तवीम्यहं ।।६।। दशपूर्वज्ञ योगीशान् चतुर्दशसुपूर्वगान्। श्रुतपारगसर्वांश्च, स्तौमि पूर्णश्रुताप्तये ।।१०।। नौम्यष्टांगनिमित्तज्ञान्, महाकुशलयोगिनः । कुशलाकुशलज्ञांश्च, संतु मे कुशलाप्तये ।।११।। अणिमामहिमाद्यैर्ये, विक्रयर्द्धियुताश्च तान् । नमामि स्वात्मलाभाय, भवदुःखविहानये ।।१२।। तपोभिःसिद्धविद्याभिर्युताविद्याधरर्षयः । विद्यानुवादपूर्वज्ञास्तोभ्यो नित्यं नमोऽस्तु मे।।१३।। जंघाकाशजलाधष्ट-चारणर्द्धिविभूषिताः। तेम्यो नमोऽस्तु साधुभ्यः, ऋद्धिं सिद्धिं दिशतु मे।।१४ ।। प्रज्ञाश्रमणयोगीन्द्राः, चतुःप्रज्ञायुता सदा।। नमस्तेभ्यो गणेशेभ्यो, मम प्रज्ञाविशुद्धये ।।१५।। आकाशगामिनो नित्यं, तपोमाहात्म्यतः स्वयं। तेभ्यो नमोस्तु मे कुर्यु-रूर्ध्वगतिमनश्वरीं । ।१६ । । आशीविषान् मुनीन् वंदे, रागद्वेषविवर्जितान्। दृष्टिर्विषांश्च तान्साधूनृद्धिप्राप्तान् सदा स्तुवे ।।१७।। उग्रतपोश्रुतान् साधून्, महोग्रोग्रोपवासिनः। तपःऋद्ध्या महांतस्तान्, नौमि तपःप्रवृद्धये ।।१८ || दीप्ततपोमहर्या ये, तनुदीप्त्या च वर्धिताः । निराहारा जगत्पूज्यास्तान् नमामि स्वसिद्धये ।।१६।। तप्ततपोयुतान् साधून्, नत्वाभ्यंतरशुद्धये। महातपोयुतान् वंदे, तान् सर्वर्द्धया समन्वितान् ।।२०।। तीव्रघोरतपोयुक्तान्, कायक्लेशादिभिर्युतान्। निर्भीकान् मुक्तिकामांस्तान्, तपः सिद्धयै नमाम्यहं ।।२१।। नमो घोरगुणर्द्धिभ्यो, जिनेभ्यः तद्गुणाप्तये। चतुरशीतिलक्षैश्च गुणैर्युक्तान् स्तुवे मुदा ।।२२।। घोरपराक्रमैर्युक्तान्, तपःऋद्ध्या विभूषितान्। नमामि घोरकर्मारि-हानये स्वात्मसिद्धये ।।२३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org