________________
४५९ जैनधर्म और तान्त्रिक साधना व व व वज़ हस्ते लललल ललिते नीलशो नील कोणे । चं चं चं चक्रधारी चल चल चलते न पुरालीढलोले त्वं लक्ष्मी श्रीसुकीर्तिं सुरवरविनते पाहि मां देवि! चक्रे! ||७|| ॐ हीं हूँ कारमन्त्रे कलिमलमथने तुष्टि वश्याधिकारे हीं हो हः यः प्रघोषे प्रलययु गजटीज्ञे यशब्द प्र णादे । यां यां या क्रोधम्र्ते! ज्वलज्वलज्वलिते ज्वाल संज्वाललीढे आँ इँ ॐ अः प्रघोषे प्रकटितदशने पाहि मां देवि! चक्रे! ।।८ || यः स्तोत्रं मन्त्ररूपं पठति निजमनो भक्तिपूर्व णो ति त्रैलोक्यं तस्य वश्यं भवति बुधजनो वाक्पटुत्वञ्च दिव्यं । सौभाग्यं स्त्रीषु मध्ये खगपतिगमने गौरवं त्वत्प्रसादात् डाकिन्यो गुह्य काश्च विदधति न भयं 'चक्रदेव्याः स्तवेन ।।६।।
इति श्रीचक्रेश्वरीदेवीस्तोत्रम् ।।
गणधरवलयस्तुतिः जिनेभ्यः सर्वसिद्धेभ्यः, नमो देशजिनाश्च ये। सूरिपाठकयोगीन्द्रा-स्तेभ्योऽपि सततं नमः ||१|| देशावधिजिनाः सर्वा-वधिश्रेष्ठर्द्धिभूषिताः । परमावधियुक्ताश्च, सर्वेभ्यो मे नमो नमः ।।२।। अनंतावधियुक्तेभ्यः, केवलिभ्यो नमो नमः । सर्वर्द्धिभूषितेश्चा -नंतसौख्यं दिशतु मे।।३।। कोष्ठबुद्धियुताः ऋद्धि-धराः सर्वे मुनीश्वराः । तेम्यो नमो नमः संतु, मम बुद्धिविशुद्धये ।।४।। बीजबुद्धियुतान् साधून्, सम्पूर्णश्रुतधारकान् । वंदे बीजर्द्धिसंप्राप्त्यै, सर्वान् गणधरान् गुरून् ।।५।। पदानुसारिबुद्धिभ्यो, युतांस्त्रिभेदभूषितान् । ऋद्धिप्राप्तयतीन् वंदे, नित्यं सर्वार्थसिद्धये।।६।। अक्षरानक्षराभाषा:, संख्याताः श्रृणुयुःसकृत् । तेभ्यः संभिन्नश्रोतृर्द्धिसंयतेभ्यो नमो नमः । ७ ।। स्वयंबुद्धमुनीन्द्राश्च, प्रत्येकबुद्धसंयताः। बोधितबुद्धयोगीशास्तेभ्यश्च त्रिविधं नमः ।।८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org