________________
४२४ जैन आचार्यों द्वारा विरचित ता० स्तोत्र अणोरणीया-ननणु-र्गुरुरायो गरीयसाम् ।।६।। सदायोगः सदाभोगः, सदातृप्तः सदाशिवः । सदागतिः सदासौख्यः, सदाविद्यः सदोदयः । ।१० ।। सुघोषः सुमुखः सौम्यः, सुखदः सुहितः सुहृत् । सुगुप्तो गुप्तिभृद् गोप्ता लोकाध्यक्षो दमीश्वरः ।।११।।
इति असंस्कृतादिशतम् ।।७।। बृहद्ब्रहस्पतिर्वाग्मी, वाचस्पति-रुदारधीः । मनीषी धिषणो धीमाञ्छेमुषीशो गिरांपतिः ।।१।। नैकरूपो नयोत्तुङ्गो नैकात्मा नैकधर्मकृत्। अविज्ञेयोऽप्रतात्मा, कृतज्ञः कृतलक्षणः ।।२।। ज्ञानगर्भो दयाग , रत्नगर्भः प्रभास्वरः । मगर्भो जगद्गर्भो, हेमगर्भः सुदर्शनः । ।३।। लक्ष्मीवांस्त्रिदशाध्यक्षो, द्रढीयानिन ईशिता। मनोहरो मनोज्ञाङ्गो, धीरो गम्भीरशासनः ।।४।। धर्म यू पो दयायागो, धर्म ने मिर्मुनीश्वरः । धर्मचक्रायुधो देवः, कर्महा धर्मघोषणः ।।५।। अमोघवागमोघाज्ञो, निर्मलो मोघशासनः । सुरूपः सुभगस्त्यागी, समयज्ञः समाहितः ।।६।। सुस्थितः स्वास्थ्यभाक्स्वस्थो, नीरजस्को निरुद्धवः । अलेपो निष्कलङ्कात्मा, वीतरागो गतस्पृहः ।।७।। वश्येन्द्रियो विमुक्तात्मा, निःसपत्नो जितेन्द्रियः । प्रशान्तोऽनन्तधामर्षि-र्मङ्गलं मलहानघः ।।८।। अनीदृ गुपमाभूतो, दिष्टिदै वमगो चरः । अमूर्तो मूर्तिमानेको, नैको नानैकतत्त्वदृक् ।।६।। अध्यात्मगम्योऽगम्यात्मा, योगविद्योगिवन्दितः । सर्वत्रगः सदाभावी, त्रिकालविषयार्थदक।।१०।। शङ्कर शंवदो दान्तो, दमी क्षान्तिपरायणः । अधिपः परमानन्दः, परात्मज्ञः परापरः ।।११।। त्रिजगद्वल्लभोऽभ्यर्च्य-स्त्रिजगन्मङ्गलोदयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org