________________
... ४२५ जैनधर्म और तांत्रिक साधना त्रिजगत्पतिपूज्याङ्घि-स्त्रिलोकाग्रशिखामणिः ।।१२।।
इति वृहदादिशतम् ।।८।। त्रिकालदर्शी लोकेशो, लोकधाता दृढव्रतः । सर्वलोकातिगः पूज्यः, सर्वलोकैकसारथिः ।।१।। पुराणः पुरुषः पूर्वः, कृतपूर्वाङ्गविस्तरः । आदिदेवः पुराणाद्यः, · पुरुदेवोऽधिदेवता ।।२।। युगमुख्यो युगज्येष्ठो, युगादिस्थितिदेशकः । कल्याणवर्णः कल्याणः, कल्यः कल्याणलक्षणः ।।३।। कल्याणप्रकृतिर्दीप्र-कल्याणात्मा. विकल्मषः । विकलङ्कः कलातीतः, कलिलघ्नः कलाधरः ।।४।। देवदेवो जगन्नाथो, जगद् बन्धुर्जगद्विभुः । जगद्धितैषी लोकज्ञः, सर्वगो जगदग्रगः ।।५।। चराचरगुरुगोप्यो, गूढात्मा गूढ गोचरः । सद्योजातः प्रकाशात्मा, ज्वलज्ज्वलनसप्रभः ।।६।। आदित्यवर्णो रुक्माभः, सुप्रभः कनकप्रभः । सुवर्णवर्णो रुक्माभः, सूर्यकोटिसमप्रभः ।।७।। तपनीयनिभस्तुङगो, बालार्काभोऽनलप्रभः । सन्ध्याभ्र बभ्रमाभस्-तप्तचामीकरच्छविः ।।८।। निष्टप्तकनकच्छायः, कनत्काञ्चन सन्निभः। हिरण्यवर्णः स्वर्णाभः, शातकुम्भनिभप्रभः ।।६।। द्युम्नाभो जातरूपाभर -तप्तजाम्बूनदद्युतिः। सुधौतकलधौतश्रीः, प्रदीप्तो हाटकद्युतिः ।।१०।। शिष्टेष्ट: पुष्टिदः पुष्टः, स्पष्टः, स्पष्टाक्षरः क्षमः । शत्रुघ्नोऽप्रतिघोऽमोघः; प्रशास्ता शासिता स्वभूः ।।११।। शान्ति निष्ठो मुनिज्येष्ठः, शिवताति: शिवप्रदः। शान्तिदः शान्तिकृच्छान्तिः, कान्तिमान्कामितप्रदः ।१२ ।। श्रेयोनिधि-रधिष्ठान-मप्रतिश्ठः प्रतिष्ठितः । सुस्थिरः स्थावरः स्थास्नुः, प्रथीयान्प्रथितः पृथुः ।।१३।।
इति त्रिकालदर्यादिशतम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org