________________
४१९ प्रशान्तरि-रनन्तात्मा, योगी योगीश्वराऽचितः । ब्रह्मविद् ब्रह्मातत्त्वज्ञो ब्रह्मोद्याविद्यतीश्वरः । । ६ । । शुद्धो बुद्धः प्रबुद्धात्मा, सिद्धार्थः सिद्धशासनः । सिद्धः सिद्धान्तविद् ध्येयः, सिद्धाध्यो जगद्धितः | १० || सहिष्णु - रच्युतोऽनन्तः प्रभविष्णुर्भवोद्भवः । प्रभूष्णु-रजरोऽजर्यो, भ्राजिष्णुर्धीश्वरोऽव्ययः । । ११ । । विभावसु-रसम्भूष्णुः स्वयम्भूष्णुः पुरातनः । परमात्मा परंज्योति - स्त्रिजगत्परमेश्वरः । ।१२ ।। इति श्रीमदादिशतम् ।।१ । ।
जैनधर्म और तांत्रिक साधना
दिव्यभाषापतिर्दिव्यः पूतवाक्पूतशासनः । पूतात्मा परमज्योति - र्धमध्यिक्षो दमीश्वरः । ।१ ।। श्रीपतिर्भगवानर्ह-न्नरजा विरजाः शुचिः । तीर्थकृत् केवलीशानः, पूजार्हः स्नातकोऽमलः । । २ । । अनन्तदीप्तिर्ज्ञानात्मा, स्वयंबुद्धः प्रजापतिः । मुक्तः शक्तो निरबाधो, निष्कलो भुवनेश्वरः । । ३ । । निरञ्जनो जगज्ज्योति - र्निरुक्तोक्तिरना मयः । अचलस्थितिरक्षोभ्यः, कूटस्थः स्थाणुरक्षयः । ।४ ।। अग्रणीग्रामणीर्नेता, प्रणेता न्यायशास्त्रकृत् । शास्ता धर्मपतिर्धर्यो, धर्मात्मा धर्मतीर्थकृत् । । ५ । । वृषध्वजो वृषाधीशो, वृषकेंतुर्वृषायुधः । वृषो वृषपतिर्भर्ता, वृषभाको वृषोद्भवः । । ६ । । हिरण्यनाभिर्भूतात्मा भूतभृद् भूतभावनः । प्रभवो विभवो भास्वान्, भवो भवो भवान्तकः । ।७ ।। हिरण्यगर्भः श्रीगर्भः प्रभूतविभवोऽभवः । स्वयंप्रभुः प्रभूतात्मा भूतनाथ जगत्पतिः । । ८ । । सर्वादिः सर्वदिक् सार्वः, सर्वज्ञः सर्वदर्शनः । सर्वात्मा सर्वलोकेशः, सर्ववित् सर्वलोकजित् । । ६ । । सुगतिः सुश्रुतः सुश्रुत्, सुवाक् सूरिर्बहुश्रुतः । विश्रुतो विश्वतः पादो, विश्वशीर्षः शुचिश्रवाः । ।१० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org