________________
४१
जैन आचार्यों द्वारा विरचित ता० स्तोत्र
स नीरजाः स्या-दपरोऽघवान्वा
तद्दोषकीत्य व न ते गुणित्वम् । स्वतोऽम्बुराशेर्महिमा न देव!
स्तोकापवादेन जलाशयस्य ।।११।। कर्मस्थिति जन्तुरनेक-भूमि
नयत्यमु सा च परस्परस्य । त्वं नेतृ-भावं हि तयोर्भवाब्धौ
__ जिनेन्द्र! नौ-नाविकयोरिवाख्यः ।।१२।। सुखाय दुःखानि गुणाय दोषान्
धर्माय पापानि समाचरन्ति । तैलाय बालाः सिकता-समूह
निपीडयन्ति स्फुटमत्वदीयाः ।।१३।। विषापहारं मणिमौषधानि
मन्त्रं समुद्दिश्य रसायनं च । भ्राम्यन्त्यहो न त्वमिति स्मरन्ति
पर्याय-नामानि तवैव तानि।।१४ ।। चित्ते न किञ्चित्कृतवा-नसि त्वं
देवः कृतश्चेतसि येन सर्वम् । हस्ते कृतं तेन जगद्विचित्रं
सुखेन जीवत्यपि चित्तबाह्यः ।।१५।। त्रिकाल-तत्त्वं त्वमवैस्त्रिलोकी
___ स्वामीति संख्या-नियतेरमीषाम् । बोधाधिपत्यं प्रति नाभविष्यन्
तेऽन्येऽपि चेद्व्याप्स्य–दमू-नपीदम्। १६ ।। नाकस्य पत्युः परिकर्म रम्यं
नागम्यरूपस्य . तवोपकारि । तस्यैव हेतुः स्वसुखस्य भानो
रुद-बिभ्रतश्छत्रमिवादरेण ।।१७।। क्वोपेक्षकस्त्वं क्व सुखोपदेशः
स चेत्किमिच्छा-प्रतिकूल-वादः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org