________________
४०६ जैन आचार्यों द्वारा विरचित ता० स्तोत्र यद्वा दृतिस्तरति यज्जलमेष नून
मन्तर्गतस्य मरुतः स किलानुभावः । ।१०।। यस्मिन्हर--प्रभृतयोऽपि हत-प्रभावाः
सोऽपि त्वया रति-पतिः क्षपितः क्षणेन। विध्यापिता हुतभुजः पयसाथ येन
पीतं न किं तदपि दुर्धर-वाडवेन ।।११।। स्वामिन्नल्प-गरिमाणमपि प्रपन्ना
स्त्वां जन्तवः कथमहो हृदये दधानाः । जन्मोदधिं लघु तरन्त्यतिलाघवेन
चिन्त्यो न हन्त महतां यदि वा प्रभावः ।।१२।। क्रोधस्त्वया यदि विभो! प्रथमं निरस्तो
ध्वस्तास्तदा वद कथं किल कर्म-चौराः । प्लोषत्यमुत्र यदि वा शिशिरापि लोके
नील-द्रुमाणि विपिनानि न किं हिमानी।।१३|| त्वां योगिनो जिन! सदा परमात्मरूप
मन्वेषयन्ति हृदयाम्बुज-कोष-देशे। पूतस्य निर्मल-रुचेर्यदि वा किमन्य
दक्षस्य संभव-पदं ननु कर्णिकायाः । १४ ।। ध्यानाज्जिनेश! भवतो भविनः क्षणेन
देहं विहाय परमात्म-दशां व्रजन्ति । तीव्रानलादुपल-भावमपास्य लोके
चामीकरत्वमचिरादिव धातु-भेदाः ।।१५।। अन्तः सदैव जिन! यस्य विभाव्यसे त्वं
भव्यैः कथं तदपि नाशयसे शरीरम् । एतत्स्वरूपमथ मध्य-विवर्तिनो हि
- यद्विग्रहं प्रशमयन्ति महानुभावाः । ।१६ ।। आत्मा मनीषिभिरयं त्वदभेद-बुद्धया
ध्यातो जिनेन्द्र! भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं
किं नाम नो विष-विकारमपाकरोति।।१७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org