________________
४००
जैन आचार्यों द्वारा विरचित ता० स्तोत्र
नास्तं कदाचि-दुपयासि न राहु-गम्यः, स्पष्टी-करोषि सहसा युगपज्जगन्ति। नाम्भोधरोदर-निरुद्ध-महा-प्रभावः,
सूर्यातिशायि-महिमासि मुनीन्द्र! लोके ।।१७।। नित्योदयं दलित-मोह-महान्धकारम्, गम्यं न राहु-वदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्ज-मनल्प-कान्ति
विद्योतयज्जग-दपूर्व-शशाङ्क-बिम्बम् ।।१८ ।। किं शर्वरीषु शशिनाहि विवस्वता वा? .
युष्मन्मुखेन्दु-दलितेषु तमःसु नाथ! - निष्पन्न-शालि-वन-शालिनि जीव-लोके,
___ कार्य कियज्जलधरै-जलभार-ननैः ।।१६।। ज्ञानं यथा त्वयि विभाति कृतावकाशम्, नैवं तथा हरि-हरीदिषु नायकेषु ।
तेजो महा-मणिषु याति यथा महत्त्वम्,
__ नैवं तु काच-शकले किरणाकुलेऽपि ।।२०।। मन्ये वरं हरि-हरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोष-मेति।
किं वीक्षितेन भवता भुवि येन नान्यः,
___ कश्चिन् मनो हरति नाथ! भवान्तरेऽपि ।।२१।। स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्, नान्या सुतं त्वदुपमं जननी प्रसूता। सर्वा दिशो दधति भानि सहस्ररश्मिम्,
प्राच्येव दिग्जनयति स्फुर-दंशु-जालम् ।।२२।। त्वामामनन्ति मुनयः परमं पुमांसमादित्य-वर्ण-ममलं तमसः परस्तात्। त्वामेव सम्यगुपलभ्य जयन्ति मृत्युम्,
नान्यः शिवः शिव-पदस्य मुनीन्द्र! पन्थाः ।।२३।। त्वा-मव्ययं विभु-मचिन्त्य मसंख्य-माद्यम्,
ब्रह्माण-मीश्वर-मनन्त-मनङ्ग-केतुम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org