________________
३९९
दूरे सहस्र- किरणः कुरुते प्रभैव,
पद्माकरेषु जलजानि विकास - भाञ्जि ।।६।।
नात्यद्भुतं भुवन भूषण ! भूत - नाथ! भूतै-गुण-र्भुवि भवन्त-मभिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा, भूत्याश्रितं य इह नात्म - समं करोति । । १० ।।
दृष्ट्वा भवन्त-मनिमेष - विलोकनीयम्,
नान्यत्र तोष- मुपयाति जनस्य चक्षुः । पोत्वा पयः शशिकर - द्युति - दुग्ध-सिन्धोः,
क्षारं जलं जलनिधे - रसितुं क इच्छेत् ।।११।। यैः शान्त - राग-रुचिभिः परमाणुभिस्त्वम्, निर्मापित-स्त्रिभुवनैक - ललामभूत !
तावन्त एवं खलु तेऽप्यणवः पृथिव्याम्,
यत्ते समान-मपरं नहि रूप-मस्ति । । १२ ।।
वक्त्रं क्व ते सुर - नरोरग - नेत्र - हारि, निःशेष- निर्जित-जगत्-त्रितयोपमानम् ।
बिम्बं कलङ्क - मलिनं क्व निशाकरस्य,
यद् - वासरे भवति पाण्डु - पलाश -कल्पम् । | १३ ||
सम्पूर्ण - मण्डल - शशाङ्क - कला-कलाप -
जैनधर्म और तांत्रिक साधना
शुभ्रा गुणा- स्त्रिभुवनं तव लङ्घयन्ति ।
ये संश्रिता - स्त्रिजगदीश्वर - नाथ-मेकम्, कस्तान् निवारयति संचरतो यथेष्टम् । । १४ ।।
चित्रं किमत्र यदि ते त्रिदशाग्ङनाभि
नीतं मनागपि मनो न विकार - मार्गम् । कल्पान्त-काल- मरुता चलिताचलेन,
किं मन्दराद्रि-शिखरं चलितं कदाचित् । । १५ ।।
निर्धूम - वर्ति - रपवर्जित -तैल-पुरः, कृत्स्नं जगत्त्रय - मिदं प्रकटी-करोषि । गम्यो न जातु मरुतां चलिताचलानाम्,
दीपो परस्त्व - मसि नाथ! जगत्प्रकाशः । ।१६ । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org